________________
- द्वित्तीयः सर्गः। रुदन्तस्ते नदीं गत्वा तूर्ण जनकमूचिरे । केनचित् पश्यतां तात ! जहे नः पायसं गृहात् ॥५८५॥ तदाकाऽदधाचित्चे दैवं दुर्बलघातकम् । अन्येषु वेश्मसु ग्रामे दुर्भिक्षं किं विजृम्भते ॥५८६॥ अध्यनथ द्विजस्ताम्रवर्दनो ग्राममीयिवान् । ... भुजाभ्यां परिघं प्रेतभर्तुर्दण्डमिवायतम् ॥५८७॥. आदाय गेहमागत्य स भूत इव नूतनः। समुल्लासितदोर्दण्डो जघान स्तेनमण्डलम्॥५८८॥ (युग्मम् ) दृष्टा वित्रस्यतश्चौरास्तेन वातेन तूलवत् । . .. दधावे तस्कराधीशो यमदूत इव स्वयम् ॥ ५८९ ॥ सत्वरं धावमानस्य प्रवाहस्य शिला यथा।.. अन्तराले बभूवाऽस्य सौरभेयी गतिच्छिदे ॥५९०॥ मेरित इव दुर्गत्याधिष्ठित इव रक्षसा । निष्कृपस्तां कृपाणेन निजघान निषादवत् ॥५९१॥ तस्कराणामधीशस्य संमुखीनोऽभवद् द्विजः। मृगो मृगाधिपस्येव शिशुपालनवत्परः ॥५९२॥... रे ! रे ! तस्कर! मद्देश्म विशन् मूर्ख! मुमूर्षसि ।। शापेनापि ममाऽनन्ताः क्षयं नीता वधं विना ॥५९३॥ तदाफाऽथ चौरेशो मण्डलारेण चोप्रधीः।. . फलवत् पातयामास शिरो रोरद्विजन्मनः ॥५९४॥ ;
आः पाप! पापिनामाद्य ! ब्रह्महत्याविधायक !। : एवमुक्त्वाऽभ्यगादस्य वेलामासवती वधूः॥५९५॥ दुर्गतेः सङ्गदूतेन धौतेन तरवारिणा । विददारोदरं तस्याश्चण्डः कूष्माण्डखण्डवत् ॥५९६॥ गर्भ जरायुमध्यस्थं कम्पमानं भयादिव । निरीक्ष्य पुरतस्तस्य करुणा तरुणायते ॥५९७॥ -नस्ताम्रपौत्रादित्यपि पाठः । २ -रानमुष्मा तूलपूलबदिति च । . .