________________
द्वितीयः सर्गः। श्रुत्वेति नन्दने राज्य मदमावलिसंभवम् । संस्थाप्य सूरिषादान्ते श्रीवत्सो जगृहे व्रतम् ॥५५९॥ सोऽभ्यस्य द्विविधां शिक्षा दक्षः कक्षीकृतक्रियः। विशेषतस्तपस्तप्तुं त्रैविध्येन प्रचक्रमे ॥ ५६० ॥ यथा यथा तपो देहतनुतां तनुते तनौ । सथा तथाऽस्य सद्भावमहिमा नहि हीयते ॥५६॥ परितक्ष्य तपष्टङ्कः शिलामिव निजां तनूम् । उच्चकार तथा सोऽभूद् यथा जङ्गमदैवतम् ॥५६२॥ आयुःक्षये स राजर्षिर्गृहीत्वाऽनशनं चिरात् । एकावतारखिदशो जज्ञे तस्माच्च सेत्स्यत्ति ॥५६३॥ विद्याविलासराजर्षिर्यथा वेपेवरा तपः। तथाऽन्यैरपि मावेन पालनीय महाबल ! ॥५६४॥ ततो महाबलो राजा जगादेति कृत्तसितम् । करिष्यामि तपः शुद्धं स्वामिन् ! विद्यानरेन्द्रवत्॥५६५॥ दानशीलतपोधर्मा अमी भावं विना त्रयः । न फलन्ति महीपाल ! शाला इव ऋतुं विना ॥५६६॥ यद्वद् रूपं दृशा यद्वदलत्कृत्या कवेर्वचः। यदचन्द्रो गुता तद्वद् धर्मो भावेन भूष्यते ॥ ५६७ ॥ भविनो भावनैवैका मुक्तिसङ्गमदूतिका । भवे भवेदिहैवाऽऽशु दृढमहारिसाधुवत् ।।५६८॥ तथागासीत् पुरे कश्चिद् महाकोपी द्विजात्मजः। अम्बायकारिणामाबो यौवनं चाप्युपाययौ॥५६९॥ ग्रन्थिभेदं व्यधत्वोच्चैः स कदाचन भन्यवत् । कचिच्च खानखात्राणि लोल कोल इवानिशम् ।।५७०॥ अवध्यत्वादसौ राजनृभिनिर्वासिता पुरात् । अथाऽगाच्चौरभूपल्ली चौरीहल्लीसंकाकुलाम् ॥५७१॥ चौरसेनापतिं शश्वत् सेवते स्म द्विजात्मजः ।