________________
.
मल्लिनाथमहाकाव्येतं वन्दितुं महीपालः पालयन पावनी क्रियाम् । :: जगाम भक्तितस्तत्र पौरवृन्दपरीवृतः ।। ५४६॥ देशनाऽन्ते महिपालः पृष्टवानिति तान् गुरुन् । पुरा कथं ममाज्ञानं सर्वत्रोल्लसितं प्रभो ॥ ५४७॥ कथं पश्चाद् मुने ! ज्ञानं प्रसृतं मम कोविदात् । इत्युक्ते न्यगदच्छ्रीमान् मूरिभूरिगुणोत्तरः ॥ ५४८॥ पुराजन्मनि पठतां महाविघ्नस्त्वया कृतः।। अतस्तत्कर्मबन्धेन ज्ञानोल्लासोऽभवद् न ते ॥५४९॥ गुरुणा केनचित् पश्चात् सद्वाक्यैः प्रतिबोधितः । भक्तिं चक्रे धिया तेषु प्रत्यहं पुस्तकादिभिः ॥५५०॥ सत्कर्मबन्धतोऽभूस्त्वमुपाध्यायविशारदः । ज्ञानविघ्नाच्च मूर्खत्वं पूर्व संप्राप्तवानसि ॥ ५५१॥ श्रुत्वेदमवदद् राजा कर्मबन्धो महान् कृतः। कथं श्लथी भवेद् नाथ ! ततः प्रोवाच संयमी?॥५५२॥ बद्धस्पृष्टनिधत्ताख्यास्त्रयो भेदा महीपते । मिथ्यादुष्कृतभणनादिभिर्जेयाः सुहेतिभिः ॥५५३॥ तदन्यः कर्मबन्धो यो निकाचित इति स्मृतः । भूयसा तपसा सोऽपि विजेतव्यो मुमुक्षुभिः ॥५५४॥ यथा तुषारपातेन दह्यतेऽनोकहव्रजः । यथाऽऽम्लरसविष्टब्धं लङ्घनेनापदिश्यते ॥ ५५५ ॥ यथा दवाग्निनाऽरण्यं दह्यतेऽसह्यतेजसा । तथा सर्वाणि कर्माणि जीयन्ते तपसा चिरात् ॥५५६॥
(युग्मम् ) कीर्तेर्गर्वाद् भयाद् वाऽपि सुदेयं दानमङ्गिनाम् । कुललज्जाभराभ्यां च सुकरं शीलपालनम् ॥५५७॥ मृषाऽन्यरञ्जनाद् वाऽपि सुकरा हन्त ! भावना । दुष्करं तु तपस्तप्तुं देहधातुक्षयावहम् ॥ ५५८ ॥