________________
- द्वितीयः सर्गः। भवोद्विग्नोऽग्रहीद दीक्षां तापसानां यथाविधि ॥५३२॥ विद्याविलासः समभूद् भूपालः पालयन् प्रजाम् । प्रचण्डशासनः पाकशासनः स्वरिवाऽऽगतः ॥५३३॥ अन्येाः श्रेष्ठिम् राजा चतुरङ्गचमूतः। रुरोध काश्चनपुरं जम्बूद्वीपमिवाऽम्बुधिः ॥ ५३४ ॥ तेजोऽधिगम्य दुःसह्यं तस्य व्योममणेरिव । उलूक इव वाग्मूकः सूरसेनो ननाश च ॥५३५॥ नीलपत्रावलीकीर्णे बद्धकाञ्चनतोरणे । तत्राविक्षत् पुरे राजा सविद्युद्वारिदोपमे ॥ ५३६ ॥ स्वर्णपात्राणि संभृत्य रत्नैः पौरा डुढौकिरे । प्रसादं तेषु चक्रेऽसौ वाञ्छितार्थसमर्थकम् ॥५३७॥ श्रेष्ठ्यागाद् नगरीमुख्यः श्रीपालः सूनुभिः सह । श्रेष्ठिन् ! मामभिजानासि भाषते स्मेति भूपतिः॥५३८॥ सोऽप्यूचे सूर्यवत् ख्यातं राजानं त्वां न वेत्ति कः । वस्तुतस्तु यथावस्थं नो वेमि त्वां महीपते ॥५३९॥ समक्षं सर्वलोकानां ततः श्रीवत्सभूपतिः । चरित्रं मूलतः सम्यग् संक्षेपेणेत्यवोचत ॥ ५४०॥ तव सूनुरहं श्रेष्ठिन् ! श्रीवत्स इति विश्रुतः।। रामाचतुष्टयीयोगमभृतेर्वचनात् पुरा ॥ ५४१॥ कोपाटोपोत्कटं स्पष्टं विज्ञाय त्वां विनिर्गतः। इमाश्चतस्रः संप्राप्तास्तव पादप्रसादतः॥५४२॥(युग्मम्) सच्चक्रे पृथिवीपालः श्रीपालश्रेष्ठिनं ततः । वध्वः सर्वाश्व हृष्टाङ्गयो ह्याचारःकुलयोषिताम् ।।५४३॥ यौवराज्ये पदे न्यस्य श्रीधरं प्रथमाजम् । 'राज्ययुग्ममथ प्राज्यं नयवृत्त्या शशास सः॥ ५४४ ॥ अन्यदोपवनस्यान्तः सूरिः श्रीमतिसागरः। सवितेव तपोदीप्त्या पूर्बहिः समवासरत् ॥५४५॥