________________
3७
तत्वार्थाधिगमसूत्र लाग-४ | अध्याय-८ | सूत्र-१२
वायुकायिकजातिनामानेकविधम् । तद्यथा - उत्कलिकामण्डलिकाझझकाघनसंवर्तकजातिनामादि ।
वनस्पतिकायिकजातिनामानेकविधम् । तद्यथा - कन्द-मूल-स्कन्ध-त्वक्-काष्ठ-पत्र-प्रवालपुष्प-फल-गुल्म-गुच्छ-लता-वल्ली-तृण-पर्व-काय-शेवाल-पनक-वलक-कुहनजातिनामादि । एवं द्वीन्द्रियजातिनामानेकविधम्, एवं त्रीन्द्रियचतुरिन्द्रियपञ्चेन्द्रियजातिनामादीन्यपि ।
शरीरनाम पञ्चविधम्, तद्यथा - औदारिकशरीरनाम, वैक्रियशरीरनाम, आहारकशरीरनाम, तैजसशरीरनाम, कार्मणशरीरनामेति ।
अङ्गोपाङ्गनाम त्रिविधम् । तद्यथा - औदारिकाङ्गोपाङ्गनाम, वैक्रियशरीराङ्गोपाङ्गनाम, आहारकशरीराङ्गोपाङ्गनाम । पुनरेकैकमनेकविधम् । तद्यथा-अङ्गनाम तावत् शिरोनाम, उरोनाम, पृष्ठनाम, बाहुनाम, उदरनाम, पादनाम । उपाङ्गनामानेकविधम् । तद्यथा - स्पर्शनाम, रसनाम, घ्राणनाम, चक्षुर्नाम, श्रोत्रनाम ।
तथा मस्तिष्ककपालकृकाटिकाशङ्खललाटतालुकपोलहनुचिबुकदशनौष्ठभूनयनकर्णनासाधुपाङ्गनामानि शिरसः । एवं सर्वेषामङ्गानामुपागानां नामानि ।
जातिलिङ्गाकृतिव्यवस्थानियामक निर्माणनाम ।
सत्यां प्राप्तौ निर्मितानामपि शरीराणां बन्धकं बन्धननाम । अन्यथा हि वालुकापुरुषवदनद्धानि शरीराणि स्युरिति ।
बद्धानामपि च सङ्घातविशेषजनकं प्रचयविशेषात् सङ्घातनाम दारुमृत्पिण्डायःसङ्घातवत् । संस्थाननाम षड्विधम् । तद्यथा - समचतुरस्रनाम, न्यग्रोधपरिमण्डलनाम, सादिनाम, कुब्जनाम, वामननाम, हुण्डनामेति ।
संहनननाम षड्विधम् । तद्यथा - वज्रर्षभनाराचनाम, अर्धवज्रर्षभनाराचनाम, नाराचनाम, अर्धनाराचनाम, कीलिकानाम, सृपाटिकानामेति ।
स्पर्शनामाष्टविधं कठिननामादि । रसनामानेकविधं तिक्तनामादि । गन्धनामानेकविधं सुरभिगन्धनामादि । वर्णनामानेकविधं कालनामादि ।
गतावुत्पत्तुकामस्यान्तर्गतौ वर्तमानस्य तदभिमुखमानुपूर्व्या तत्प्रापणसमर्थमानुपूर्वीनामेति । निर्माणनिर्मितानां शरीराङ्गोपाङ्गानां विनिवेशक्रमनियामकमानुपूर्वीनामेत्यपरे ।