________________
तार्थाधिगमसूत्र भाग-४ / अध्याय-८ / सूत्र - १२ अगुरुलघुपरिणामनियामकमगुरुलघुनाम । शरीराङ्गोपाङ्गोपघातकमुपघातनाम, स्वपराक्रमविजयाद्युपघातजनकं वा । परत्रासप्रतिघातादिजनकं पराघातनाम । आतपसामर्थ्यजनकमातपनाम । प्रकाशसामर्थ्यजनकमुद्योतनाम । प्राणापानपुद्गलग्रहणसामर्थ्यजनकमुच्छ्वासनाम । लब्धिशिक्षद्धिप्रत्ययस्याकाशगमनस्य जनकं विहायोगतिनाम । पृथक्शरीरनिर्वर्तकं प्रत्येकशरीरनाम, अनेकजीवसाधारणशरीरनिर्वर्तकं साधारणशरीरनाम । त्रसभावनिर्वर्तकं त्रसनाम । स्थावरभावनिर्वर्तकं स्थावरनाम । सौभाग्यनिर्वर्तकं सुभगनाम । दौर्भाग्यनिर्वर्तकं दुर्भगनाम । सौस्वर्यनिर्वर्तकं सुस्वरनाम, दौः स्वर्यनिर्वर्तकं दुःस्वरनाम । शुभभावशोभामाङ्गल्यनिर्वर्तकं शुभनाम । तद्विपरीतनिर्वर्तकं अशुभनाम । सूक्ष्मशरीरनिर्वर्तकं सूक्ष्मनाम । बादरशरीरनिर्वर्तकं बादरनाम ।
३८
पर्याप्तिः पञ्चविधा । तद्यथा आहारपर्याप्तिः, शरीरपर्याप्तिः, इन्द्रियपर्याप्तिः, प्राणापानपर्याप्तिः, भाषापर्याप्तिरिति । पर्याप्तिः क्रियापरिसमाप्तिरात्मनः । शरीरेन्द्रियवाङ्मनः प्राणापानयोग्यदलिकद्रव्याहरणक्रियापरिसमाप्तिराहारपर्याप्तिः । गृहीतस्य शरीरतया संस्थापनक्रियापरिसमाप्तिः शरीरपर्याप्तिः । संस्थापनं रचना घटनमित्यर्थः । त्वगादीन्द्रियनिर्वर्तनक्रियापरिसमाप्तिरिन्द्रियपर्याप्तिः । प्राणापानक्रियायोग्यद्रव्यग्रहणनिसर्गशक्तिनिर्वर्तनक्रियापरिसमाप्तिः प्राणापानपर्याप्तिः । भाषायोग्यद्रव्यग्रहणनिसर्गशक्तिनिर्वर्तनक्रियापरिसमाप्तिर्भाषापर्याप्तिः । मनस्त्वयोग्यद्रव्यग्रहणनिसर्गशक्तिनिर्वर्तनक्रियापरिसमाप्तिर्मनःपर्याप्तिरित्येके । आसां युगपदारब्धानामपि क्रमेण समाप्तिरुत्तरोत्तरसूक्ष्मतरत्वात् सूत्रदार्वादिकर्तनघटनवत् । यथासङ्ख्यं च निदर्शनानि – गृहदलिकग्रहणस्तम्भस्थूणाद्वारप्रवेशनिर्गमस्थानशयनादिक्रियानिर्वर्तनानीति । पर्याप्तिनिर्वर्तकं पर्याप्तिनाम, अपर्याप्तिनिर्वर्तकमपर्याप्तिनाम, (अपर्याप्तिनाम) तत्परिणामयोग्यदलिकद्रव्यमात्म (ना) नोपात्तमित्यर्थः । स्थिरत्वनिर्वर्तकं स्थिरनाम । विपरीतमस्थिरनाम । आदेयभावनिर्वर्तकमादेयनाम, विपरीतमनादेयनाम । यशोनिर्वर्तकं यशोनाम, तद्विपरीतमयशोनाम । तीर्थकरत्वनिर्वर्तकं तीर्थकरनाम । तांस्तान् भावान् नामयतीति नाम । एवं सोत्तरभेदो नामकर्मभेदोऽनेकविधः प्रत्येतव्यः ||८ / १२ ।।
-
भाष्यार्थ :
-
गतिनाम ...... प्रत्येतव्यः ।। गतिनाभर्भ, भतिनाभर्भ, शरीरनामर्भ, अंगोपांगनामर्भ, निर्माणनामर्म, बंधननाभर्भ, संघातनाभर्भ, संस्थाननामर्भ, संहनननामर्भ, स्पर्शनामर्भ, रसनामर्भ, गंधनामऽर्भ, वहुर्गनाभर्भ, आनुपूर्वीनामर्म, अगुरुलघुनाभर्म, उपघातनाभर्भ, पराधातनाभर्भ, આતપનામકર્મ, ઉદ્યોતનામકર્મ, ઉચ્છ્વાસનામકર્મ, વિહાયોગતિનામકર્મ; પ્રત્યેકશરીર આદિ નામકર્મ ઇતરપૂર્વક. તે આ પ્રમાણે – પ્રત્યેકશરીરનામકર્મ-સાધારણશરીરનામકર્મ, ત્રસનામકર્મ-સ્થાવરનામકર્મ, સુભગનામકર્મ-દુર્ભગનામકર્મ, સુસ્વરનામકર્મ-દુઃસ્વરનામકર્મ, શુભનામકર્મ-અશુભનામકર્મ, સૂક્ષ્મનામકર્મ