________________
[२]
[तत्त्वार्थन्त्रिसूत्री
न्याय-बौद्ध-सायसंकेतितसत्तानिरसनम् उत्तरोत्तरातिरिक्तया सत्तया पूर्वपूर्वसत्तायां तत्प्रतीतिव्यवहाराद्युपपादने चानवस्था कथङ्कार वारयितुं शक्या ? । यदि च स्वरूपसत्वमादायैव सत्तायां सत्प्रतीतिर्न तु तदर्थमपरापरसत्ताऽन्वेषणं तदा प्रथमयाऽपि सत्तयाऽतिरिक्तयाऽलं स्वरूपसत्तया यथा तत्र सत्प्रतीतिस्तथैव द्रव्यादिष्वपि सा भविष्यति । न चैवं स्वरूपसत्त्वानामननुगतत्वादनुगतप्रतीति तावतोपपादिता स्यादिति वाच्यम् , भवतामप्यतिरिक्तसत्ताऽभ्युपगमेऽपि तस्यां पुनरतिरिक्तसत्तानभ्युपगमेन तत्प्रतीतेरुपपादनस्याशक्यत्वात् । न च न्यायनये सत्तकैव, सा द्रव्यगुणकर्मसु समवायेन वर्तमाना सत्प्रतीतिजननी, सामान्यविशेषसमवायेषु च खसमवायिसमवेतत्वसम्बन्धेन तथा, अभावश्च सप्तमः पदार्थः सन्निति प्रतीतिविषयो भवत्येव नेति न तदर्थ तस्य सम्बन्धान्तरान्वेषणम्. अत एव समवायखसमवायिसमवेतत्वान्यतरसम्बन्धावच्छिन्नसत्तानिष्ठप्रतियोगिताकाभाव एवाभावत्वमामनन्ति नैयायिका इति वाच्यम्, समानाकारकप्रतीतेस्सम्बन्धभेदमुपादायोपपादनस्य स्खशिष्यगोष्ठीष्वेव मानार्हत्वात् । प्रकारभेदे यथा प्रतीतेरननुगतत्वं तथा सम्बन्धभेदेऽपीति तदनाकलनमपि तत्रैव शोभत इति वाच्यम् । एवं सत्यर्थक्रियाकारित्वलक्षणसत्त्वस्य सौगतानुमतस्य दोषगणास्पृष्टस्य सत्प्रतीतिनियामकत्वसम्भवे तदतिरिक्तसत्त्वनिर्वचनस्य तथाप्यायासमात्रत्वात् । न चैवम्भूतं सत्त्वं प्रतिक्षणमर्थक्रियाकारित्वे सत्येव वस्तुनि घटते, अर्थक्रियाकारिता च सतामेव भवितुमर्हति, अन्यथा शशशृङ्गादीनामपि सा स्यादिति तेऽपि सन्तः प्रसज्येरनिति वाच्यम्, तत्तत्कार्यम्प्रति तत्तत्कुर्वद्रूपत्वेनैव कारणत्वेन शशशृङ्गादितः कस्यापि कार्यस्यानुदयेन तत्र कुर्वद्रूपत्वस्य किञ्चित्कार्यनिरूपितस्याभावेन ततोऽर्थक्रियाया अभावे तेषां सत्त्वापत्तेरलभ्यत्वात् । न चैवं सत्यर्थक्रियाकारित्वलक्षणं सत्त्वं कार्येऽनुपयुक्तमेवापतितं तत्र कुर्वद्रूपत्वस्यैव प्रयोजकत्वकक्षीकरणात्, केवलं सत्सदिति प्रतीत्यनुरोधेनैव तदभ्युपेयम् , सत्सदिति प्रतीतिश्च सविकल्पकरूपा न सौगतदर्शने प्रामाण्यमाकलयति, तन्मते निर्विकल्पकस्यैव प्रमाणतया कक्षीकारात् । सा च प्रतीतिः तत्कुर्वद्रूपाद्विकल्पान्तरादित एवेति विकल्पे निर्विषयतयाऽभ्युपगते विषयस्याहेतुत्वेन सत्त्वस्य कस्यचिदनभ्युपगमेऽपि सन् सन्निति प्रतीत्युपपत्तौ न तदर्थ सत्ताकल्पना ज्यायसी। किंचार्थक्रियाकारित्वलक्षणसत्त्वमपि किञ्चिदर्थक्रियाकारि न वा?, अन्त्ये न तस्य सत्त्वमिति असता तेन कथमन्यस्य सत्त्वं ?, खयमसतोऽन्यस्य सत्करणे प्रावीण्यासम्भवात् , अन्यथा शशशृङ्गादिनाऽपि सत्त्वोपपत्तावर्थक्रियाकारित्वलक्षणसत्त्वाभ्युपगमेनाप्यलम् । आये अर्थक्रियाकारिस्वेऽप्यर्थक्रियाकारित्वमापतितम् , तच्चात्माश्रयभयादन्यदेवास्थेयम् , तस्यापि च सत्त्वोपपत्तयेऽर्थक्रियाकारित्वमप्यभ्युपेयमेवं तस्यापीति दुर्निवारोऽनवस्थासमवतारः। किञ्च प्रतिव्यक्ति अर्थक्रिया भिन्नेति तन्निरूपितमर्थक्रियाकारित्वमपि नानाखरूपमिति कथन्तस्यानुगतसत्सदितिप्रतीतिनियामकत्वम् । अननुगतस्याप्यनुगतप्रतीतिनियामकत्वे वरूपसतां वस्तूनामेव तदस्त्विस्यलमर्थक्रियाकारिवलक्षणसत्त्वकल्पनया। परिभाषा तु न वस्तुखरूपप्ररूपणे फलवती । किञ्चैतन्मतस्यैकान्तक्षणभङ्गाभ्युपगमसमुत्थस्य मार्थक्रियासिद्धिस्थानत्वम् । न हि खरूपतो व्यापारतो वा कार्यक्षणाननुयायिनो निरन्वयध्वस्तस्यार्थक्रिया घटत इति वाच्यम्, एवमपि कपिलदर्शनावदातमेकान्तकान्तं सत्त्वरजस्तमोगुणमयत्वमेव सत्त्वमुररीक्रियताम् , तदपि मतं द्रव्यार्थिकनयमूलकत्वाद् भवतां कथञ्चिदनुमतमेवेति तत एव निरूपितस्वरूपे तस्मिन्निरूपणान्तरप्रयास आयासमात्रफलक एवेति । तस्य चानुगतत्वं तत्त्वकौमुद्या वाचस्पतिमिश्रेण स्पष्टमभ्यधायि, तद्यथा-"एकैव स्त्री रूपयौवनकुलशीलसम्पन्ना खामिनं सुखाकरोति, तत्कस्य हेतोः ? तम्प्रति तस्याः सत्त्वगुणसमुद्भवात् , सैव सपत्नीवुःखाकरोति ताः प्रति तस्या रजोगुणसमुद्भवात् , सैव तामलभमानं जनान्तर मोहयति तम्प्रति तस्यास्तमोगुणसमुद्भवात्" इत्यादिग्रन्थेन । तथा च स्त्रीदृष्टान्तेन सर्वस्य वस्तुनस्त्रिगुणप्रभवत्वेन कार्यकारणयोस्तादात्म्यात्रिगुणमयत्वमिति तदेव सत्त्वमिति । न चैवन्तन्मते जीवानां चैतन्यमात्रस्वरूपाणां कूटस्थनित्यानां कार्यकारणभावकथाविमुखानां त्रिगुणमयत्वरूपसत्त्वाभावान्न सदिति प्रतीतिविषयत्वं स्यादिति तेषामन्यदेव सत्त्वं वाच्यमित्यननुगमस्तत्रापि दुरुधर एवेति वाच्यम् , जडमात्रे त्रिगुणमयत्वं सत्त्वं जीवानाञ्च चैतन्यमयत्वं सत्त्वमिति सत्त्वद्वयकल्पनया सामञ्जस्यात्। न च एकस्या एवाबलायाः खामिगतरत्यादिखगतसौन्दर्यादिगुणसहकार्युपष्टम्भेन स्वामिगतसुखजनकत्वं सपनीगतद्वेषादिखगततत्प्रतिकूलाचरणादिसौन्दर्यादिसहकारिसम्बलनेन सपत्नीगतदुःखजनकत्वं नरान्तरगतखकामुकत्वस्वगततदखीकारादिबोधकाचरणशीलत्वादिगुणसहकारेण तद्गतमोहजनकत्वमित्येवं सत्त्वादिगुणाखीकारेऽप्युपपत्तौ न सत्त्वादिगुणमयत्वं कस्यापि स्वीकार्य, नापि प्रकृत्यादिप्रक्रियायां प्रमाणं, कार्यकारणतादात्म्यवादश्च तेषां सत्कार्यवादसमाश्रयेण, सत्कार्यवादे चोत्पादविनाशौ आविर्भावतिरोभावावेव, सत्कार्यवादश्च कापिलानां जीवनभूत एव तमन्तरेण कार्यकारणयोस्तादात्म्यस्योपपादयितुमशक्यत्वात् । कार्यकारणयोस्तादाम्यादेव च कूटस्थचैतन्यपुरुषस्य न किमपि कार्यम्प्रति कर्तृत्वं यतस्तथा सति कार्यतादात्म्यमापन्नस्य तस्य कार्यनाशे सति नाशस्स्यात्, सत्कार्यवादश्च "असदकरणादुपादानग्रहणात्सर्वसम्भवाभावात् शक्तस्य शक्यकरणास्करणभावाच सत्कार्यम्" इतीश्वरकृष्णकारिकयोपपादितोऽस्ति । तथा चोत्पत्तिकारणतयाऽभिमतस्याविर्भाव