________________
भाष्यटीकाविवृतियुता]
वेदान्तदर्शनोपदर्शितसत्तानिराकरणादिकम् ।
[३]
एव व्यापारः, विनाशकारणतयाऽभिमतस्य च तिरोभाव एव व्यापारः । तत्राविर्भावोऽपि सत्वरूप एव तैरुपगन्तव्योऽन्यथाऽसत्कार्यवादस्तत्र प्रविशन् तदृष्टान्तेनान्यत्रापि प्रविशन्न निरोढुं शक्येत । एवञ्च तत्र कारकव्यापारवैफल्यप्रसङ्गभीत्याऽऽविर्भावस्याप्याविर्भावस्तस्याप्याविर्भाव इति नीत्या एकाऽनवस्था, एवं तिरोभावस्याप्याविर्भावो वाच्योऽन्यथा तस्मिन्नपि सति कारकव्यापारवैफल्यं स्यात् , सोऽपि सन्नेवेति तत्रापि कारकवैफल्यमनुषज्यतेति तस्याप्याविर्भाव इति रीत्या द्वितीयाऽनवस्था, एवं यस्य तिरोभावस्तस्यैवाविर्भावो वाच्योऽन्यथाऽऽविर्भूतस्याविर्भाववैयर्थ्यमित्याविर्भावस्याविर्भावान्यथानुपपत्त्या तिरोभावो वाच्यस्तस्य चोपमर्दमन्तरेणाविर्भावस्याविर्भावासम्भवात्तिरोभावस्यापि तिरोभावो वाच्य एवन्तस्यापीत्येवन्तत्राप्यनवस्थेत्यनेकानवस्थादुस्थत्वादविचारितरमणीयमेव तन्मतमिति तदभ्युपगता सत्ता न सत्प्रतीतिमाधातुं प्रत्यलेति वाच्यम् । एवं सत्युत्तरमीमांसामीमांसामांसला निर्वचनीयतावादिवेदान्त्यभ्युपगता सत्तैव प्रातीतिकव्यावहारिकपारमार्थिकरूपेण त्रिधा भिद्यमाना सत्प्रतीतिमाधातुं प्रत्यला पुरस्क्रियताम् । वेदान्तमतस्यापि च शुद्धद्रव्यार्थिकनयभेदपरसङ्घहनयप्रसूतत्वेन भवदभ्युपगतत्वमेव, तस्य व्यवस्था चैवम्-यत्र भवद्भिर्विपरीतख्यातिरभ्युपेयते तत्र वेदान्तिनाऽनिर्वचनीयख्यातिराश्रिता, शुक्तिकायां रजतभ्रमे टङ्कशालास्थितरजतगतव्यावहारिकरजतत्वस्य न भानं तत्कारणस्य तेन सममिन्द्रियसन्निकर्षस्याभावात् , किन्तु शुक्तिरजतमेव तदानीं प्रतीतिसमकालीनमनिर्वचनीयं चाकचिक्यादिदोषसहकृताविद्यामहिम्नोत्पन्नं सदवभासते तस्य प्रातीतिकसत्त्वम् , उत्तरकाले नेदं रजतमिति व्यावहारिकप्रमाणज्ञानेन तस्य बाधात् प्रातीतिकस्य ब्रह्मज्ञानेतरज्ञानबाध्यत्वात् , घटपटादीनां च व्यावहारिकसत्त्वं तेषां व्यवहारकाले बाधाभावात् , किन्तु निर्विकल्पकब्रह्मज्ञानेन 'तत्त्वमसि' इति महावाक्यसमुत्थब्रह्मसाक्षात्काररूपेण तेषां बाधः, अतो ब्रह्मज्ञानातिरिक्तज्ञानाबाध्यत्वमेव तेषां व्यावहारिकसत्त्वम् , ब्रह्मणश्च त्रिकालाबाध्यत्वरूपं पारमार्थिकसत्त्वमिति प्रातीतिकव्यावहारिकयोर्बाध्यत्वेऽपि नासत्त्वं किन्तु सत्त्वासत्त्वाभ्यां विचारासहत्वलक्षणमनिर्वचनीयत्वमेव, तत्र सत्त्वं त्रिकालाबाध्यत्वम् , असत्त्वञ्च न तद्विरहः किन्तु चिद्भिन्नत्वे सति क्वचिदप्युपाधावप्रतीयमानत्वम् , तच्च शशशृङ्गादीनामेव, ते च न क्वचिदप्यधिकरणे प्रतीयन्ते, प्रातीतिकं च शुक्तिरूप्यादि शुक्त्यवच्छिन्नचैतन्ये कल्पितं तत्र प्रतीयते, व्यावहारिकाश्च घटादयो शुद्धचैतन्ये कल्पितास्तत्र प्रतीयन्त एव । यद्यपि ब्रह्मापि न क्वचिदप्युपाधौ प्रतीयते तथापि न तस्य चिद्भिन्नत्वमिति नासत्त्वप्रसङ्गः, इत्थञ्चासद्विविक्तत्वलक्षणं सत्त्वमेव त्रितयानुगतं सत्प्रतीतिनियामकमिति नाननुगमोऽपि, मायावादे चास्मिन् परापादितानि दूषणानि भूषणान्येव, अत एव तद्वादिनो वादजल्पो विहाय कथायां वितण्डामेवाश्रयन्ति । तेषां खपक्षस्थापनप्रयासाभावेन परपक्षखण्डनत एव खाभीष्टसिद्धेः, अत एव खण्डनखण्डखाद्य
"नात्यापत्त्या प्रमामात्रात्ते तेऽर्थाः स्वीक्रियोचिताः। तद्धियस्तदुरीकारे स्वाश्रयं कश्चिकित्सतु ॥१॥ अथान्यः स विशेषश्चेत्तद्धीत्वं कश्चिदिष्यते । दत्तः साकारवादाय विष्टरः स्पष्टमेव हि ॥२॥ अर्थादुत्थानवो धर्मा नानुमात्वादयो यथा । तद्धीत्वमपि तद्वत्स्यादित्यर्थोऽनर्थमाविशेत् ॥३॥ सोऽपि वा धीविशेषः किं स्वीकार्यस्तद्धियं विना । एवं च सोऽपि सोऽपीति नान्तः सोपानधावने ॥ ४ ॥ समस्तलोकशास्त्रैक्यमत्यमाश्रित्य नृत्यतोः। का तदस्तु गतिस्तत्तद्वस्तुधीव्यवहारयोः ॥५॥
उपपादयितुं तैस्तैर्मतैरशकनीययोः। अनिर्वक्तव्यतावादपादसेवा गतिस्तयोः ॥ ६॥" इति खण्डनडिण्डिमः । न चैतन्मतस्य विवर्तवादप्रधानत्वेन ब्रह्मैव जगद्रपेणावभासत इत्यत्रैव पर्यवसानम् । यद्यपि मायावादरूपतया मायापरिणामत्वमपि जगतस्तथापि विवर्तवादोपष्टम्भकतयैव मायापरिणामत्वस्वीकारः, विवतॊ नाम अधिष्ठान विषमसत्ताककार्यापत्तिः, परिणामो नाम कारणसमसत्ताककार्यापत्तिरित्यनयोर्भेदः। बिवर्त्तवादे च ब्रह्मसत्तातिरिक्तसत्ताकत्वाभाव एव जगति, ब्रह्मसत्ता च ब्रह्मरूपैव, शुद्धचैतन्यस्वरूपस्य ब्रह्मणो निर्धर्मकत्वेन तत्रातिरिक्तधर्मरूपसत्ताया अभावात् । इस्थञ्च विप्रकारसत्ताविभजनं मूढप्रतिबोधनार्थमेव, वस्तुतो ब्रह्मैव सच्चिदानन्दस्वरूपमिति जगतोऽनिर्वचनीयत्वे तदन्तःप्रविष्टा सत्तापि नास्तीति न तन्मताबलम्बनं जैनानां ज्याय इति वाच्यम् । एवं सति तत्तन्नयमये भगवत्प्रवचने तत्तन्नयप्रसूततत्ततैर्थिकबिचारस्य सत्ताखरूपाकलने कुण्ठतामेवोररीकुर्वतस्वप्रकृतिभूतनयस्यापि तत्र कुण्ठीभवनमेवोपपादयतस्तत्समष्टिरूपस्य प्रमाणवरूपता प्राप्तस्य भगवदास्यनिर्गतस्याद्वादस्यापि तथैव पर्यवसानं नयतो का नाम कथन्ता स्यात् ? "प्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शनं वरम्" इति न्यायेन दूरतः परिहरणीय एव सत्ताविचारः, अविचारितरमणीयैव सा प्रतिपाद्यपुरुषव्युत्पत्त्याधानायाखण्डोपाधिरूपतामाकलयन्ती तत एव सत्प्रतीतिमपि प्रमाऽप्रमासाधारणी व्यवहारप्रवर्तनाय सम्पादयिष्यतीति । तथापि परस्परोपमोपमर्दकखरूपाणां भेदाभेदनित्यानित्यसदसदाद्यनन्तखरूपवस्त्ववगाहनविमुखानां दुर्णयानां दूरतः प्रामाण्यचर्चा, नयत्वमपि वस्त्वंशावगाहित्वाभावानास्त्येव । नहि भेदैकान्तोऽभेदैकान्तो नित्यैकान्तोऽनित्यैकान्तो वा सदायेकान्तो वा जगति समस्ति यो वस्त्वंशतां