SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ ॐ अहँ नमः। तत्त्वार्थ त्रिसूत्री [श्रीमदुमाखातिवाचकवरविरचिततत्त्वार्थाधिगमसूत्रान्तर्गता त्रिसूत्री] -***- - श्रीविजयनेमिसूरीश्वरपट्टालङ्कारश्रीविजयलावण्यसूरिविरचिता प्रकाशिकाभिधा त्रिसूत्रीविवृतिः । चिसामान्यमनाथमावृतिलये कैवल्यतो भेदवद्, ज्ञानं दर्शनमर्थभेदकलनात् स्याद्वादतीर्थाङ्करम् । यस्याय॑स्य सम तमातमसमं वीरं वरेण्यः परैः, स्वार्थोद्बोधकृते नमामि सततं मुक्त्यङ्गनालिङ्गितम् ॥१॥ सन्मात्रांशे निबद्धा स्थितिलयजननैः सर्वमेयाश्रिता या, धर्मे सर्वत्र तुल्या स्वमननपरया द्रव्यपर्यायनीत्या। ज्ञाने ज्ञेयेऽभिधाने कलयति समतां वीरलब्धात्मभावा, वाणी स्याद्वादपूर्णा जयति भुवि वरा सा त्रिपद्यर्थगत्या ॥२॥ त्रिपदीगूढरहस्सं सभाष्यसूत्रेण येन निर्दिष्टम् । तमहं वाचकमुख्यं नमाम्यनेकान्ततत्वज्ञम् ॥३॥ सूत्रार्थप्रवणा सुभाष्यमनना सनीतिमानागमा, तत्तत्तन्त्रमतार्थसार्थप्रथना निर्वाणमार्गप्रभा। वृत्तिर्यस्य सुशास्त्रपद्धतिमिता स्थाद्वादभावान्वया, भूत्यै स स्मृतिमागतो भवतु मे श्रीसिद्धसेनो गणिः ॥४॥ पूर्वाचार्यगुणप्रकर्षमहिमाधारस्य यस्य क्रियाः, सर्वा एव सुशिष्टकृत्यनुगमे दृष्टान्तताभाजनम् । तस्योक्ति मितिनीतितर्कसुभगां श्रीनेमिसूरेर्गुरोः, सेवे तत्त्वसरस्वती प्रविततां निक्षेपभनयाश्रिताम् ॥५॥ यद्याख्याकलितोऽत्र शास्त्रनिवहो भव्यालिजाड्यापहो, विज्ञानां मुदमातनोति विषमग्रन्थ्यर्थबोधासितः। वन्दे में गुरुवर्यमाप्तमुकुटं श्रीनेमिसूरीश्वरं, स्याद्वादाम्बुजभास्करं बुधततिप्रख्यातधामास्पदम् ॥ ६॥ स्थाद्वादमानमञ्जुलां, नयालिकलितां हिताम् । तत्त्वार्थसूत्रमध्यस्थां, त्रिसूत्री भाष्यवृत्तिगाम् ॥ ७॥ गुरुरुकृपया लब्ध-धीलवो बाललीलया। लावण्यालपितः सूरिः प्रकाशयति सन्मुदे ॥८॥ युग्मम् ॥ यद्यपि प्रमाणनयैरधिगमो भवति तत्त्वार्थस्य, प्रमाणानि च नयाश्च यथास्थानं निरूपिता एव, तत्त्वान्यपि यथास्थानं ग्यावर्णितस्वरूपाण्येवेति किमपरमवशिष्टं यदर्थम् "उत्पादव्ययध्रौव्ययुक्तं सद्" इति सूत्रं प्रणायि श्रीमद्भिर्वाचकपडवैः। न चेदमवशिष्टम् , यदुत-सत्त्वसमाकलितानि प्रमाणादीनि सन्तीत्युच्यन्तेऽन्यथा त्वसन्तीति सत्त्वमेव सर्वस्य प्राणभूतम, तन्निरूपणञ्चावश्यं विधेयम्, अनिरूपिते च तस्मिन्निरूपितान्यपि प्रमाणादीनि शशशृङ्गकल्पानीति शून्यतामेव जगदाकलयेदिति वाच्यम्, सुनिरूपिते प्रमाणे तद्विषयत्वमेव सत्त्वमिति सत्त्वनिरूपणं जातमेवेति खरूपान्तरान्वेषणन्तस्य न कमप्यर्थ पुष्णाति, प्रत्युत यावन्ति प्रमाणस्य विषयीभूतानि तत्त्वानि तेभ्योऽधिकं सत्त्वमिति तदर्थमप्यन्यत्प्रमाणं परिकल्पनीयं स्यात. अन्यथा तस्याप्रामाणिकत्वे तन्निबन्धनजीवनानि वस्तून्यपि नात्मानमासादयेयुरिति सकलाऽपि लोकयात्रा समुच्छिन्ना स्यात् । न च सत्वाश्रये वस्तुनि यत्प्रमाणं तदेव सत्त्वेऽपीति न तदर्थं प्रमाणान्तरान्वेषणमिति वाच्यम्, एवं सति स्वरूपसत्तैव वस्तुन उपगता स्यात् , अन्यथाऽन्यविषयस्य प्रमाणस्य तदन्यस्मिन्प्रामाण्ये घटविषयकप्रमाणमपि पटादौ प्रामाण्यमासादये, दित्यतिप्रसङ्गोऽनिवारितप्रसरः स्यात् । न च खरूपसत्त्वाभ्युपगमे खखरूपस्य खस्मादभिनत्वात्प्रतिव्यक्ति सत्ता भिन्ना स्यादिति सन् घटः सन् पट इत्यनुगतप्रतीतिर्न ततः समुलसेत्, अननुगतायाः प्रतीतेरननुगतविषयनिमित्तकत्वमिवानुगताया अनु, गतेकविषयनिमित्तकत्वस्यैव खीकर्तुमुचितत्वादिति वाच्यम्, एवं सति नैयायिकाभ्युपगता सत्तैव प्रमाणीक्रियताम्, सा चान्यत्र प्ररूपितैवेति वृथा तद्व्यतिरिकसत्त्वप्ररूपणायासः “अर्के चेन्मधु विन्देत किमर्थ पर्वतं व्रजेत् । इष्टस्पार्थस्य संसिदी को विद्वान् यत्नमाचरेत् ॥१॥” इति न्यायात् । ननु सत्तापि सतीत्येवं प्रतीयते, न च खस्मिन्खस्य वृत्तिरात्मानयभयात्सम्भवति, न च सत्तायामन्या सत्ताऽभ्युपगन्तव्या, तथा सति सापि सतीत्येवंप्रतीयमानाऽन्यया सत्तयाऽऽलिङ्येत, प्रथमया सत्तया तदालिङ्गनेऽन्योन्याश्रयः कथमपाकर्तुं शक्यः ?, तृतीयया सत्तया द्वितीयस्यां सत्तायां तत्प्रतीत्युपपादने तस्यामपि तत्प्रतीत्युपपादनाय चतुर्थी सत्ताऽभ्युपगन्तव्या स्यात, सा च प्रथमया सत्प्रतीतिविषयश्वेच्चक्रकस्समवतरन निरोद्धं शक्येत,
SR No.022537
Book TitleTattvartha Trisutri Prakashika
Original Sutra AuthorN/A
AuthorVijaylavanyasuri
PublisherJain Granth Prakashak Sabha
Publication Year1945
Total Pages150
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy