________________
[७८] ऋजुसूत्रमुखेन उत्पन्नास्तिकस्य द्रव्यास्तिकमातृकापदास्तिकनिरसनम् । [ तत्त्वार्थत्रिसूत्री सामान्यविशेषानेकधर्मत्वाद् धर्मादयोऽपोहानपोहरूपाः सर्वे मातृकापदास्तिकम् , एवं द्रव्यार्थनयाभिप्रायो द्रव्यास्तिकमातृकापदास्तिकाभ्यामाख्याप्तः । पर्यायार्थनयावसरे त्विदमुच्यते
[भाष्यम्-] उत्पन्नास्तिकस्य उत्पन्नं वा उत्पन्ने वा उत्पन्नानि वा सत् । अनुत्पन्न वाऽनुत्पन्ने वाऽनुत्पन्नानि वाऽसत् ॥
उत्पन्नास्तिकस्येत्यादि । पर्यायार्थस्य मूलमृजुसूत्रः, स च प्रत्युत्पन्नं वर्तमानलक्षणमात्रं सर्वमेव धर्मादिद्रव्यं प्रतिजानीते, क्षणं क्षणं प्रत्युत्पन्नं पूर्वपूर्वक्षणविलक्षणम् , इदमेव च सतो लक्षणंयदुत्पद्यते प्रतिक्षणम् , उत्पादो हि वस्तुनो लक्षणम् , अनुत्पादाश्च व्योमोत्पलादयो न कथञ्चिल्लक्ष्यन्ते, तत्रात्मनां तावत् प्रतिक्षणमपरापरज्ञानदर्शनक्रियाद्युत्पादो लक्षणम् , पुद्गला वर्ण-गन्ध-रस-स्पर्श-शब्दसंस्थान-तम-श्छायाद्युत्पादलक्षणाः,धर्माधर्माकाशास्तु गन्तृस्थात्रवगाहमानगतिस्थित्यवगाहाकारोत्पादतः, प्रतिक्षणमन्ये चान्ये च भवन्तीति, एषां च बर्तमानक्षण एव सत्यः, तस्मादेकमभिन्नं सकलभेदहेतुमातृकापदं नाम किञ्चिन्नास्ति व्यवहारनयपुरस्कृतम् । अपि च-व्यवहारोऽपि लौकिकः प्रत्युत्पन्नक्षणसाध्य एव, सतोऽर्थक्रियासामर्थ्यात् , सँश्च वर्तमानक्षणः, क्रान्तानागतक्षणयोरसत्त्वान्नार्थक्रियासामर्थ्य सम्भाव्यते, तस्मादुत्पन्न एवास्ति क्षणः, तस्मिँश्च नान्वयि किञ्चिद् द्रव्यत्वादि विद्यते, ततश्च भूतान्वेषिणो न द्रव्यास्तिकं न मातृकापदास्तिकं किञ्चिदस्ति, उत्पन्नास्तिकमेव तु सत् सन्तत्या द्रव्यं वा धर्मादि वाऽभिधीयते, न भूततस्तदस्ति, सन्तानस्त्र सांवृतत्वात् , ते च वर्तमानक्षणा भूयांसः, तत्रैक
न्यविशेषानेकधर्मत्वादिति, द्रव्यत्वादि सामान्यं धर्मत्वादिविशेषस्तद्रूपानेकधर्मवत्त्वादित्यर्थः। अपोहानपोहरूपा इति. विशेषात्मनाऽपोहरूपाः सामान्यात्मनाऽनपोहरूपा इत्यर्थः । द्रव्यनयेनार्पितसिद्धिनिरूपणमुपसंहरति-एवमिति । एवमित्यस्यैव विशिष्यार्थावेदनम्-द्रव्यास्तिकमातृकापदास्तिकाभ्यामिति । उत्पन्नास्तिकस्येत्याद्युत्तरभाष्यमवतारयति-पर्यायार्थनयाघसर इति, अवसरसङ्गतिरनेनावेदिता। पर्यायार्थस्य पर्यायार्थिकनयस्य ऋजुसूत्रशब्दसमभिरूद्वैषम्भूतनयचतुष्टयस्य । मूलं प्रधानम्, ऋजुसूत्रनयविषयं वर्तमानक्षणमुपादायैव सर्वेषां पर्यायार्थिकनयानां प्रवृत्तेरित्याशयः। ऋजुसूत्रनयवक्तव्यमाविष्करोति-सचेत्यादिना, स च ऋजुसूत्रश्च, अस्य प्रतिजानीते इत्यनेन सम्बन्धः । वर्तमानलक्षणमात्रमित्यत्र वर्तमानक्षणमात्रमिति पाठो युक्तः, प्रत्युत्पन्नमित्यस्य वर्तमानक्षणमात्रमिति खरूपं व्यावर्णितं तदेव स्पष्टयति-क्षणं क्षणमिति । इदमेवेति, प्रतिक्षणं यदुत्पद्यते इदमेव च सतो लक्षणमित्यन्वयः, प्रतिक्षणमित्यस्य देहलीदीपन्यायेन पूर्वोत्तरान्वयित्वं बोध्यम् । प्रतिक्षणमुत्पादस्य सल्लक्षणत्वं व्यवस्थापयति-प्रतिक्षणमुत्पादी हीति, आत्मनो वस्तुत्वोपपत्तये तल्लक्षणमुत्पादस्वरूपं तत्र सङ्गमयति-तत्रात्मनामिति । पुद्गलेषु तत्सङ्गमयति-पुद्गलास्त्विति । धर्माधर्माकाशानां तदुपपादयति-धर्माधर्माकाशास्त्विति । एषां जीवादीनाम् । विषयाभावान्मातृकापदं न युक्तिपथमुपैतीत्याह-तस्मादेकमभिन्न मिति, जीवपर्यायेष्वनुगतं जीवद्रव्यं मातृकापदम् , एवं पुद्गलादिपर्यायेष्वनुगतं पुद्गलादिद्रव्यं मातृकापदं सकलस्वखपर्यायकलापहेतुभूतं व्यवहारनयाकलितं नास्तीत्यर्थः। ननु व्यवहारनयापवादे तन्मूलिका सकललोकयात्रोत्सन्ना स्यादित्यत आह-अपि चेति । प्रत्युत्पन्नेति, वर्तमानेत्यर्थः। लौकिकव्यवहारस्य वर्तमानक्षणसाध्यत्वोपपादनायाह-सत इति । क्रान्तेति, अतीतेत्यर्थः। तस्मादिति, यतः प्रत्युत्पन्नक्षणसाध्य एव सकललोकयाव्रात्मको लौकिको व्यवहारस्तस्मादित्यर्थः। तस्मिन् प्रत्युत्पनक्षणे । भूतान्वेषिणो यथार्थवस्तुतत्त्वगवेषणधिषणस्य । द्रव्यास्तिकं सङ्ग्रहनैगमनयविषयः । मातृकापदास्तिकं व्यवहारनयविषयः । तर्हि द्रव्यमिति किमुच्यते ? धर्मादिपदेन वा किमभिधीयते? इत्यपेक्षायामाह-उत्पन्नास्तिकमेव विति। सन्तत्या सन्तानस्वरूपतया। भूततः परमार्थतः । न तदस्ति द्रव्यं वा धर्मादि वा नास्तीत्यर्थः । अत्र हेतुः-संतानस्य सांवृतत्वादिति, सन्तानात्मनाऽभ्युपगम्यमानस्य