________________
normat
भाष्यटीकाविवृतियुता] . धर्मादीनां मातृकापदामातृकापदवाच्यत्वोपपत्तिः । [७] धर्मादि पञ्चविधम् , सकलभेदजालप्रसूतिहेतुत्वान्मातृकापदं मातृकास्थानीयमुच्यते धर्मादि, मातोऽन्यदस्तीति, अमातृकापदं वेत्यादिना तामेव परस्परव्यावृत्तिमभिव्यनक्ति, यदि धर्मादिपञ्चकव्यतिरेकि किञ्चिद् भवेत् ततस्तत्रामातृकापदं वेत्यादिव्यपदेशो युज्येत, संज्ञास्वालक्षण्याद्यभावात् तच्चासत् , तस्मात् धर्म एवाधर्मलक्षणाद् व्यावर्तमानस्तेनाधर्मस्खलक्षणरूपेणासन्नित्युच्यते । एवं शेषेष्वपि भावना विधेया॥
सर्वसद्गतिविशेषाणां प्रसवहेतुत्वाद् धर्मास्तिकायो मातृकापदम् , स एव च सर्वसस्थितिविशेपप्रसवव्यावृत्त्यपेक्षया अमातृकापदम् , एवं द्विवचनबहुवचने विभावनीये। तस्मान्न द्रव्यास्तिकादि किश्चिन्मातृकापदव्यतिरेकि विद्यते, स्वभावासंक्रान्त्या तु परस्परापोहभावतः पदार्थव्यवस्थानम् , स चापोहः सल्लक्षणव्यवच्छेदेनैको यथा-प्रमाणं प्रमेयं च सद्, यन्न प्रमाणं न प्रमेयं तदसदेव, अपरो धर्म्यन्तरस्य धर्म्यन्तरोत्पन्नवैशिष्ट्येनापोहः, तद्यथा-जीवोऽजीवो न भवत्यश्वो गौर्न भवतीति, तथाऽनपोहश्वेतनाचेतनयोर्द्रव्यादेशात् , परस्परापोहे च द्रव्यादेशात् सर्वेषां धर्मादीनामनपोह इत्येवं मित्यपेक्षायामाह-सकलभेदेति । यथा सकलवर्णपदवाक्यप्रकरणग्रन्थादिप्रपञ्चमूलत्वादकारादिहकारान्ताक्षरमाला मातृकेति व्यपदिश्यते तथा धर्मादिपञ्चकमपि सकलभेदजालप्रसूतिहेतुत्वान्मातृकापदमित्युच्यते। मातृकापदमित्यस्य मातृकास्थानीयमिति विवरणम् । सत्त्वं धर्मादिपञ्चकान्यतमत्वव्याप्यमित्यावेदयितुमाह-नातोऽन्यदस्तीति, अतो धर्मादिपञ्चकादन्यद्भिनं नास्ति न सदित्यर्थः। धर्मादिपञ्चकादन्यस्यासत्त्वव्याख्यापनपरमेव अमातृकापदं वेत्यादि भाष्यमित्याह-अमातृकापर्द वेत्यादिनेति, धर्मास्तिकाय एव अधर्मास्तिकायरूपमातृकापदखलक्षणव्यावृत्तत्वादमातृकापदम्, एवमधर्मास्तिकाय एव धर्मास्तिकायरूपमातृकापदखलक्षणव्यावृत्तत्वादमातृकापदम्, एवमाकाशास्तिकायादिष्वपि . योज्यम्, धर्मास्तिकाय एव च अधर्मास्तिकायखलक्षणव्यावृत्तत्वात्तद्रूपेणासदित्युच्यत इत्याद्यपि बोध्यम् । धर्मास्तिकायादिभ्यो व्यतिरिक्तमेष किश्चिदमातृकापदव्यपदेश्यमसत्पदवाच्यं च किन्न स्यादित्याशङ्कायामाह-यदीत्यादि । ततः, तदा । तत्र धर्मादिपञ्चकव्यतिरिक्ते । धर्मादिपश्चकव्यतिरिक्तस्य तु नास्ति काचिदखण्डनामरूपा संज्ञा नापि तस्य किश्चिदसाधारणं लक्षणमतस्तत्र ध्यपदेशकरणोपायाभावादमातृकापदव्यपदेशोऽसम्भव इत्याह-संज्ञेत्यादि । तर्हि अमातृकापदमित्यनेन किमुच्यते? किश्च तथाऽसदित्युच्यते ? इत्यपेक्षायामाह-तस्मादिति । उक्तन्यायमन्यत्राप्यतिदिशति-एवमिति, उक्त प्रकारेणेत्यर्थः, अस्य भावनेत्यनेनान्वयः । शेषेष्वपि, अधर्मादिष्वपि । धर्मे मातृकापदामातृकापदत्यपदेशावुपपादयति-सर्वसद्वतिविशेषाणामिति । स एव च धर्मास्तिकाय एव पुनः । पञ्चानां मध्ये खलक्षणवत्तया द्वयोर्विवक्षायां मातृकापदे इति विकल्पः, त्रयाणां चतुर्णा पञ्चानां च खलक्षणवत्तया विवक्षायां मातृकापदानीति विकल्पः, एवं द्वयोरन्यव्यावत्तत्वेन विवक्षायाममातृकापदे इति, त्रयाणां चतुर्णा पञ्चानां वा परस्परव्यावृत्तया विवक्षायाममातृकापदानीति विकल्प इत्याह-पवामिति । भेदव्यवस्थितौ च निर्भिन्नं द्रव्यं नास्त्येवेत्याह-तस्मादिति । द्रव्यास्तिकादीति, आदिपदादुत्पमास्तिकपर्यायास्तिकयोरुपग्रहः, एतन्मते तयोरपि मातृकापद एवान्तर्भावादिति बोध्यम् । धर्मास्तिकायादीनामपोहानपोहरूपताव्यवस्थापनपूर्वकं तद्रूपाणां मातृकापदास्तिकत्वमुपपादयति-स्वभावासहान्त्या स्विति, खभावसङ्क्रान्तौ तु विरुद्धधर्माध्यासो भेदहेतुरेव ततो व्यावर्तेत, ततश्च परस्परापोहभावोऽपि दुर्घट इति पदार्थव्यवस्थापनमसमञ्जसं स्यादित्यभिसन्धिः । अपोहस्यानुगतत्वाननुगतत्वाभ्यां द्विप्रकारतां मनसि निधाय तन्त्रानुगतमपोहम्प्रथममुपदिशति-स चापोह इति । सल्लक्षणव्यवच्छेदेनेति, सल्लक्षणस्पान्यतो यो व्यवच्छेदस्तेनेत्यर्थः । एकः सर्वानुगतः । तमुदाहरति-यथेति । अन प्रमाणप्रमेययोरुभयोरप्येकेनैवासद्ध्यावृत्तिखरूपसत्त्वलक्षणापोहेन सङ्ग्रहः । अपरः, अननुगतः । धर्म्यन्तरोत्पन्नवैशिष्ट्येनेत्यत्र धर्म्यन्तरात्यन्तवैशिष्ट्येनेति पाठो युक्तः । अस्योदाहरणमाह-तद्यथेति, धर्मादीनां परस्परभेदव्यवस्थापनायापोहलप्तावपि द्रव्याणि पञ्चेति व्यवहारोपपादनाय द्रव्यत्वमपि तनोररीकार्यम् , तच्च धर्मादिसकलसाधारणत्वादनपोह इत्याह-तथानपोह इति । एतदेवोपपादयतिपरस्परापोहे चेति, खखाधारणधर्मलक्षणभेदादन्योन्यं व्यावृत्तत्वे सतीत्यर्थः। द्रव्यादेशात् द्रव्यनयेन सर्वानुगतस्य द्रव्यरूपसामान्यांशस्य विवक्षातः । अनपोहः, द्रव्यत्वेन सर्वेषामव्यावृत्तत्वमैक्यमिति यावत्। एवमुक्तप्रकारेण । सामा