________________
[ ७६ ]
मातृका पदास्तिकव्याख्या प्रयोजनानि व्यवहारनयमतञ्च ।
[ तवार्थत्रिसूत्री [भाष्यम्--] मातृकापदास्तिकस्यापि मातृकापदं वा मातृकापदे वा मातृकापदानि वा सत् । अमातृकापदं वा अमातृकापदे वा अमातृकापदानि वाऽसत् । मातृका पदास्तिकस्यापीत्यादि । धर्मास्तिकायादीनामुद्देशमात्रं मातृकापदास्तिकलक्षणम्, एवं मन्यते व्यवहारः - न द्रव्यमात्रमभेदं सत् संज्ञाखालक्षण्यादिशून्यं व्यवहर्तॄणां लौकिकपरीक्षकाणां धियं धिनोति, व्यवहारार्थश्च वस्त्वभ्युपगमः, स च भेदेन प्रायः साध्यते त्वयाऽपि च भेद एवं प्रदर्शितो द्रव्यं वा द्रव्ये वा द्रव्याणि बेति, एकस्मिन्नर्थे एकवचनं द्वयोरर्थयोर्द्विवचनं बहुष्वर्थेषु बहुवचनमित्येवं सतो भेदिका सङ्ख्या, न च द्रव्यसतोर्भेदस्ते द्रव्यमेव सत्सदेव द्रव्यम्, यच्चैकसङ्ख्याछिन्नं सत् तत्र द्वित्वादिसङ्ख्ययाऽऽश्रयितुं शक्यम्, न ह्येको द्वौ द्वौ वा एक इत्येवं लोकव्यवहार - प्रवणेन भेदोऽभ्युपेयः, किं तद् द्रव्यं ? धर्माधर्माकाशपुद्गलजीवभेदं गत्तिस्थित्यवगाहशरीरादिपरस्परोपग्रहणाद्युपकर, संज्ञास्वलक्षणादिविविक्तं संव्यवहारप्रापणप्रत्यलं भवति ?, निर्भेदं पुनर्वस्तु न काचिद् व्यवहारमात्रामभिमुखीकरोति, भेदप्रधानतायां तु धर्मादीनामन्यतमै कविवक्षायां सत् मातृकापदम्, द्वित्वविवक्षायां सती मातृकापदे, त्रित्वादिविवक्षायां सन्ति मातृकापदानीति प्रतिविशिष्टव्यवहारप्रसिद्धिः, अतो धर्मादयः परस्परव्यावृत्तसत्त्वस्वभावार्पणयैव सन्ति, नान्यथा । धर्मास्तिकाय स्वलक्षणं य (तू त )न जातुविदधर्मास्तिकायलक्षणं भवति, अतो यदस्ति तन्मातृकापदं वेत्यादिना विकल्पत्रयेण सङ्गृहीतं
थ्यतामाविष्करोति-एवं मन्यत इत्यादिना । न द्रव्यमात्रमिति, धियं धिनोतीत्यनेन सम्बन्धः, बुद्धिमादधातीति, बुद्धिविषयो भवतीति यावत् । द्रव्यमात्रस्य सत्त्वे विभिन्नप्रवृत्तिनिमित्तिका संज्ञाप्यर्थभेदभिन्ना नास्ति, खलक्षणस्य भावः स्वालक्षण्यं स्वखाधारणधर्मः प्रवर्त्तकनिवर्त्तकतावच्छेदको नास्ति, तथा च लोकयात्राविलोप एवेतन्मत इत्याह-व्यवहारार्थश्वेति । स च व्यवहारश्च । त्वयापि द्रव्यास्तिकनयाभ्युपगन्त्राऽपि । इत्येवम् अमुना प्रकारेण । सतो भेदिके ति, एकत्वमेकस्मिन् वर्त्तते द्वित्वश्च नैकस्मिन् किन्तु द्वयोरेव, बहुत्वं च बहुष्वेव नैकस्मिन्द्वयोर्वेति सतो भेदो यदि न स्यात्तदा धर्मिण उभयस्वरूपस्य बहुखरूपस्याभावाद्धर्मखरूपा द्वित्वादिसङ्ख्या कुत्र वर्त्ततेति तदन्यथानुपपत्त्या सतो भेद आवश्यक इति । ननु सदेवैकं द्रव्यं तु नानाsतो द्रव्ये द्रव्याणीति विकल्पोपपत्तिरित्यत आह-न च द्रव्यसतोर्भेदस्ते इति । ते शुद्धद्रव्यास्तिकाभ्युपगन्तुः, द्रव्यसतोर्द्धर्मिणोर्भेदो नास्त्येवेत्यर्थः । तत्र हेतुः - द्रव्यमेव सत्सदेव द्रव्यमिति, द्रव्यमेव सदित्यनेन द्रव्यव्यतिरिक्तस्य सत्त्वव्यवच्छेदः, सदेव द्रव्यमित्यनेन सद्व्यतिरिक्तस्य द्रव्यत्वव्यवच्छेदः, तथा च सत्त्वद्रव्यत्वयोः समनियतत्वे सत एकत्वे द्रव्यमप्येकमेव स्यात्तथा चैकवचनमेव स्यान्न द्विवचनबहुवचने इति । एकस्मिन्द्रव्ये सति द्विश्वबहुत्वयोरपि पर्याप्तिरस्तु को दोष इत्यत आह-यश्चैकसङ्ख्येति । एकत्वावच्छिन्ने द्वित्वायवृत्तौ तथाप्रतीत्यभाव एव प्रमाणमित्याह - नोक इति । तस्माल्लोकयात्रानिर्वहणाय भेदोऽभ्युपेय इत्याह- एवमिति । भेदः कथमभ्युपेय इति पृच्छति - किन्तव्यमिति । उत्तरयति-धर्माधर्मेति, अनेन पञ्च सङ्ख्या परिच्छिन्नद्रव्य भेदखरूपप्ररूपणम् । किमर्थमेतावतामभ्युपगम इत्यपेक्षायामाह-गतीत्यादि, गत्युपकारो धर्मस्य स्थित्युपकारोऽधर्म स्यावगाहोपकार आकाशस्य शरीराद्युपकारः पुद्गलस्य परस्परोपग्रहणं जीवस्य प्रयोजनम् । धर्माधर्मेत्यादिना द्रव्यभेदानां संज्ञा विविक्ता गतिस्थित्यादिना विविक्तं लक्षणमतस्ते विभिन्नखभावभाज इत्याशयेनाह - संज्ञास्वलक्षणादिविविक्तमिति, आदिपदात्प्रत्ययोपग्रहः । एतादृश• भेदभाजनमेव द्रव्यं लोकयात्राक्षममित्याह - संव्यवहारेति । संग्रहाभिमतस्य तु द्रव्यस्य न लोकयात्रा क्षमत्वमित्याह - निर्भेदमिति । इदानीं मातृकापदास्तिकस्यापीत्यादि भाष्यानुगमना याह-भेदप्रधानतायां त्विति । अत इति, यतो भेदमुपादायैव प्रतिविशिष्टव्यवहारप्रसिद्धिस्तस्मादित्यर्थः । एवकारव्यवच्छेद्यमाह - नान्यथेति, परस्परव्यावृत्तस्वभावानर्पणे तु न सन्ति धर्मादय इत्यर्थः । यतो धर्मादीनां पञ्चानामन्योन्यासङ्क्रमस्वरूपेण व्यवस्थितिरतो मातृकापदानां तेषां सत्त्वमुपादाय मातृकापदमित्यादिविकल्पोपपत्तिरित्याह-धर्मास्तिकायस्वलक्षणमिति । कथं धर्मादिपञ्चकं मातृकापदवाच्य