________________
भाष्य टीका विवृतियुता ].
. द्रव्यास्ति मते सर्वेषां द्रव्ये समवतारः ।
[ ७५ ]
द्रव्ये वा द्रव्याणि वेति, न तु कदाचिद् वचनत्रयप्रतिपाद्यद्रव्यव्यतिरेकेणान्यत् किञ्चित् सदस्ति, यतो द्रव्यमित्यपदिष्टे सत् प्रतीयते, द्रव्ये इत्यपि सती, द्रव्याणि च सन्तीत्येवं व्यस्तेषु समस्तेषु च प्रतीयते द्रव्येष्वेव सत्, द्रव्यमात्रे नियतवृत्तित्वात्, द्रव्यव्यतिरिक्तपदार्थाभावाच्चान्यत्र नोपलभ्यते, यदि स्यादद्रव्यं किञ्चिद् गुणः कर्मादि वा तत्राप्याशङ्केत सतो वृत्तिः, तत् तु नैवास्तीत्ययमर्थोऽनेन भाष्यवचनेन प्रत्याय्यते - असन्नाम नास्ति, असदिति यस्य नाम संज्ञिनस्तत्संज्ञिरूपमसन्नामकं नास्ति, संज्ञिरूपाभावाद् वा संज्ञा नास्ति, परस्परापेक्षत्वात् संज्ञासंज्ञिनोः, एवं चासच्छब्देन गुणाद्यभाव एवोच्यते, स च गुणाद्यभावो द्रव्यमात्रमेव, द्रव्यास्तिकस्येत्युक्तेन प्रकारेण द्रव्यार्थिकस्यार्थपदभावना । अन्ये भाष्यमेवं पठन्ति — असन्नाम नास्त्येव सावधारणोऽसतः प्रतिषेधः, सर्वं द्रव्यमिति सञ्जिघृक्षतो द्रव्यास्तिकस्य हि मातृका पदास्तिकाद्यपि सर्वमन्तर्वसतीति, तस्मात् सदित्युक्ते एषामेकत्वद्वित्वबहुत्यानामन्यतमोक्तौ तदवरोधः सन्मात्रत्वादिति । एवं सङ्ग्रहनयेन स्वाभिप्राये द्रव्यास्तिकमात्रतया प्रकाशिते व्यवहारनयः स्वाभिप्रायमाविष्करोति मातृका पदास्तिकोपन्यासेन -
यामाह - सच्च त्रिविधमुत्पादादीति । तच्चोत्पादादित्रयश्च । उत्पादव्ययावेकीकृत्यैकं धौव्यञ्चैकमिति कृत्वा द्रव्ये इति, उत्पादश्चैको व्ययश्चैको धौव्यं चैकमिति कृत्वा द्रव्याणीति, समुदितस्यैवैक्यं विवक्षित्वा द्रव्यमिति । तथा चैवंभूतद्रव्यार्थिकनयार्पणया त्रीण्यप्यर्थपदानि सिद्ध्यन्तीत्याह - द्रव्येणेति । वचनत्रयप्रतिपाद्यद्रव्यतिरेकेण सन्नास्तीत्यत्र हेतुमाहयत इति । अपदिष्टे प्रयुज्यमाने । द्रव्ये इत्यपीति, अपदिष्टे इत्यस्यानुकर्षः । सती प्रतीयेते इति वचनविपरिणामेनातनस्य प्रतीयते इत्यस्य सम्बन्धः । द्रव्याणि चेति चकारादपदिष्ट इत्यस्यानुकर्षः । सन्तीत्येव मिति, सम्तीत्येवं रूपेणेत्यर्थः । द्रव्येष्वेव सत्, प्रतीयते इत्यनेन सम्बन्धः । द्रव्येषु कथम्भूतेष्वित्यपेक्षायामाह - व्यस्तेषु समस्तेषु चेति, व्यस्तेषु द्रव्येषु उत्पादव्यययोरैक्यं द्रव्यस्य चैक्यमि विवक्षायांति द्रव्ये इति, त्रयाणां प्रत्येकमैक्यविवक्षायां बहुरूपत्वसम्पत्तौ द्रव्याणीति, समस्तेषूत्पादव्ययघ्रौव्येषु एकद्रव्यत्वविवक्षायां द्रव्यमितीति विवेकः । द्रव्येष्वेव सत्प्रतीती हेतुमाह - द्रव्यमात्रे नियतवृत्तित्वादिति, यच्च द्रव्यं तत्रैव सत्त्वस्य वृत्तित्वात् यच्च यत्र वर्त्तते तत्रैव तस्यैवोपलम्भः शमा, अन्यत्र तस्य प्रतीतिर्भ्रान्तिरेव न वस्तुसाधिकेत्याशयः । ननु द्रव्यनियतवृत्तित्वाद्द्रव्येष्वेव सदिति प्रतीयते इति तदा स्याद्यदि द्रव्यव्यतिरिक्ते तत्प्रतीतिर्न स्यात्तत्रैव तु किम्मानमित्यत आह- द्रव्यव्यतिरिक्तेति । एतदेवोपपादयन्नाह - यदि स्यादिति । अयं च ग्रन्थोऽसन्नाम नास्तीति भाष्यस्यावतरणरूप इत्यावेदयितुमाह-अयमर्थ इति । असन्नाम नास्तीति भाष्यं व्याचष्टे - असदितीति । यदि किमपि वस्तु असच्छब्दवाच्यं नास्ति नाप्यसच्छन्दः कस्यापि संज्ञा,
तस्य प्रयोगोऽपि दुर्घट इत्यत आह-एवं चेति, द्रव्यव्यतिरिक्तस्य कस्यचिद्वस्तुनोऽसंज्ञकस्याभावे तादृशवस्तुवाचक • तयाऽसदिति शब्दस्य संज्ञात्वाभावे चेत्यर्थः । ननु गुणाद्यभाव एव द्रव्यव्यतिरिक्तो वस्तुभूतोऽसदिति नाम्नः संज्ञी संवृत्तस्तस्य संज्ञाऽसदिति असन्नाम नास्तीति भाष्यमसङ्गतमापतितमित्यत आह-स चेति । तथा च द्रव्यव्यतिरिक्तमसन्नाम नास्तीति युक्तमेवेति । इयं चार्थपदभावना कस्य नयस्येत्यपेक्षायां द्रव्यास्तिकस्येति भाष्यमित्याह- द्रव्यास्तिकस्येत्युक्तेनेति । नास्तीत्यत्र सावधारणपाठं केचिन्मन्यन्ते तदुपदर्शयति - अन्ये इति । द्रव्यास्तिकाभिप्रायमुपवर्णयन्ति - सर्वमिति । संजिवृक्षतः, द्रव्यत्वेन रूपेण सर्वं सङ्गृह्णतः । द्रव्यास्तिकस्येत्यनन्तरं मते इति शेषः । मातृकापदास्तिकाद्यपीति, आदिपदादुत्पन्नास्तिकपर्यायास्तिकयोरपि ग्रहः । सर्वमन्तर्वसति, सर्वान्तर्गतमेव । तेन तेषामपि द्रव्यं द्रव्ये द्रव्याणि बेत्युक्तावुपक्षेपो भवत्येवेत्याह- तस्मादिति, सद्वचनद्रव्यवचनयोः पर्यायत्वे सदित्युक्ते द्रव्यं द्रव्ये द्रव्याणीति वचनान्यतमाभिधानं प्राप्तमेव, ततश्च सर्वपदार्थसङ्ग्रहणम् । असन्नाम नास्त्येव येन तदसङ्ग्रहः सम्भाव्येतापीत्याह- सदित्युक्त इति, सदित्युक्ते एषां द्रव्यं द्रव्ये द्रव्याणीत्यन्यतमानामवरोधः सत्वेन सङ्ग्रहणम्, द्रव्यं द्रव्ये द्रव्याणीत्यन्यतमोकौ च सतोऽवरोधो द्रव्यत्वेन सर्वेषां सतां सङ्ग्रहणम्, सन्मात्रस्य द्रव्यत्वादसतश्चाभावादित्यर्थः । मातृकापदास्तिकस्यापीत्युत्तरभाग्यमवतारयति एवं सङ्घद्दनयेनेति । उद्देशमात्रं सामान्यतो नाम्ना सङ्कीर्त्तनम् । व्यवहारनयक्त