________________
भाष्यकाविवृतियुता ] उत्पन्नास्तिकार्थपदानिं, सप्तभङ्गयाः सकलादेशविकलादेशत्वञ्च । [७९] क्षणविवक्षायामुत्पन्नास्तिकं सदिति विकल्पः द्वित्वविवक्षायामुत्पन्नास्तिके वा सती, त्रित्वादिविवक्षायामुत्पन्नास्तिकानि वेति यत् तत् सदेवं विवक्षया नियम्यते सङ्ख्याभेदेन व्यवहारार्थम् । यच्च परेण द्रव्यास्तिकं मातृकापदास्तिकं वाऽभ्युपेतं तदुत्पन्नमनुत्पन्नं वा स्यात् ?, यदि पूर्वः कल्पः, अस्मत्समीहितसिद्धिः, अथोत्तरस्ततोऽसदेव द्रव्यास्तिकादि, कथञ्चिदप्युत्पादनेनायोगादत आह- अनुत्पन्नं चानुत्पन्ने वाऽनुत्पन्नानि वा सर्वमसत् स्वलक्षणस्योत्पादस्याभावादिति । एवमुक्तेन प्रकारेण धर्मादि द्रव्यं स्यात् सत् स्यादसत् स्यान्नित्यं स्यादनित्यमिति प्रतिपाद्यत्वेन सूचितम् अधुना विपनयते - तत्र द्रव्यार्थनयप्रधानतायां पर्यायनयगुणभावे च प्रथमविकल्पः, प्राधान्यं शब्देन विवक्षितत्वाच्छन्दाधीनम्, शब्दानुपात्तस्यार्थतो गम्यमानस्याप्रधामता १ । पर्यायनयप्रधानतायां द्रव्यनयगुणभावे च द्वितीयः २ । अर्पितेऽनुपनीते न वाच्यं सदित्यसदिति वेत्यनेन भाष्यवचनेन तृतीय
द्रव्यादेः कल्पितत्वादित्यर्थः । उत्पन्नास्तिकं सत् उत्पन्नास्तिके सती उत्पन्नास्तिकानि सन्तीति विकल्पत्रयोपपादनायाह-ते चेति । तत्र भूयस्सु वर्त्तमानक्षणेषु । एकक्षणा दिविवक्षाप्रयोजनमाह-यत्तत्सदेवमिति । द्रव्यास्तिक मातृका पदास्तिकयोरुत्पन्नास्तिकस्वरूपत्व एव सत्त्वमन्यथा त्वसत्त्वमेवेत्याह-यच्चेति, अभ्युपेतमित्यनेनान्वयि । परेण द्रव्यार्थिकनयाभ्युपगन्त्रा । पूर्वः कल्पः, द्रव्यास्तिकमातृकापदास्तिकयोस्त्पन्नस्वरूपत्वपक्षः । अस्मत्समीहितसिद्धिः पर्यायार्थिकनया - भ्युपगन्तुमतस्योत्पन्नास्तिकं सदिति पक्षस्य सिद्धिः । उत्तर इति द्रव्यास्तिकं मातृकापदास्तिकमनुत्पन्नमिति पक्षः । असत्त्वे हेतुः - कथञ्चिदप्युत्पा देनायोगादिति, उत्पादेन सह कथञ्चिदपि सबन्धाभावादित्यर्थः । अत आहेति, अस्य स्थाने इत्यादेति पाठो युक्तः । सप्तभङ्गी प्रसिद्धिमूलभङ्गद्वयसूचनमनेन कृतमित्याह - एवमिति । प्रथमद्वितीयभङ्गयोरुपपादनायाह- अधुनेति । विपञ्चयते विविच्य प्रपश्चत उपदर्श्यते । प्रथमविकल्पः स्यात्सदिति स्यान्नित्यमिति च भङ्गः । सत्त्वासत्त्वादीनां सर्वेषामेव धर्मादिषु भावात्कथमेकस्य प्राधान्यमित्यपेक्षायामाह - प्राधान्यमिति, तथा च शब्दोपात्तत्वमेव प्राधान्यमित्यर्थः । एवश्व शब्दानुपात्तस्य धर्मान्तरस्यार्थतो गम्यमानत्वमेवाप्राधान्यमित्याह - शब्दानुपात्तस्येति । द्रव्यार्थ - पर्यायार्थनयप्रधानगुणभावाभ्यां प्रथमभङ्गमुपपाद्य पर्यायार्थद्रव्यार्थ नय प्रधानगुणभावाभ्यां द्वितीयभङ्गमुपपादयति- पर्यायनयप्रधानतायामिति । द्वितीय इति, स्यादसदिति स्यादनित्यमिति च भङ्ग इत्यर्थः । ननु भङ्गद्वयमात्रप्रतिपादने सप्तभङ्गीस्वरूपं न सिद्ध्यति सप्तधर्मप्रतिपादनत एव तस्या निष्पत्तेरतो न्यूनत्वमपरिहार्यमतस्तृतीयभङ्ग प्रतिपादकमुत्तरभाष्यमनुसन्धाय वृत्तिकृदाह- अर्पित इति स्यादवक्तव्यमिति तृतीयविकल्पो वक्ष्यत इत्येवमन्वयः । भङ्गत्रयसिद्धौ च धर्मद्वयधर्मत्रयसंयोजनोपनिपातिधर्मान्तर प्रसिद्धिसौकर्यादग्रिम भङ्गचतुष्टय संसिद्धिरयत्नोपनतेति परिपूर्णैव सप्तभङ्गीति न न्यूनत्व - मिति भावः । कालात्मरूपार्थ सम्बन्धोपकारगुणिदेशसंसर्गशब्दैः द्रव्यार्थादेशेन गुणानामनन्तानामप्येकवस्तु गतानामभेदवृत्तिप्राधान्यात्पर्यायार्थादेशेनाभेदोपचाराद्वैक धर्म प्रतिपादनमुखेन सकलधर्मप्रतिपादनतस्तदात्मकवस्तुप्रतिपादकत्वेन प्रत्येकं सप्तामामपि भङ्गानां सकला देशत्वम्, तथा तैरेव कालादिभिरष्टभिः पर्यायार्थादेशेन भेदवृत्तिप्राधान्याद्रव्यार्थादेशेन च भेदोपचाराद्वा सप्तभिरपि भन्नैः प्रत्येकमेकैकस्यैव धर्मस्य प्रतिपादनतो वस्तुभागस्यैव प्रतिपादकत्वं न वस्तुन इति विकलादेशत्वमत. स्सकला देश स्वभावत्वात्सप्तभङ्गीप्रति भङ्गापेक्षया प्रमाणवाक्यं विकलादेशस्वभावत्वान्नयवाक्यमिति परे परिकीर्तयन्ति देवसूरयोऽपि तथैवाभ्युपगच्छन्ति, तेषामयमाशयः - अस्तित्वादिविशिष्ट मघ तव्यत्वादिकमप्यर्थान्तरमेव, न तु विशेषण स्वरूपपरिकलितं विशेष्य स्वरूपमात्रं तथा सति विशेषणविशेष्यभावव्यत्यासेन सप्ताधिकधर्माप्तितस्सप्तभङ्गी स्वरूपव्याहतिः स्यात्, विशिष्टस्य धर्मान्तरत्वे च विशेषणविशेष्यभावव्यत्यासेनाने कि विशिष्ट स्वरूप निष्पत्तावपि समनियतविशिष्टानामैक्यमिति तादृशानेकविशिष्टप्रतिपादन मे केनैव भङ्गेनेति न सप्ताधिकभङ्गप्रसङ्गः तादृशश्च विशिष्टरूपोऽखण्ड एव धर्म इति तदभिव्यञ्जकतयैव विशेषणविशेष्ययोरुपयोग इति धर्मद्वयभेदानुसन्धानस्य न नियमेनापेक्षेति तादृशविशिष्टधर्मस्यापि कालादिभिरभेदवृत्त्यभेदोपचाराश्रयणस्य धर्मान्तरैस्सह कर्त्तुं शक्यत्वादेकधर्मप्रतिपादनमुखेन सकलधर्मात्मकवस्तु प्रतिपादनस्य सप्तभिरपि भङ्गैः