________________
( २६ )
तृतीयेऽध्याये श्रष्टादशसूत्राणि (१८) सन्ति । अस्मिन् सप्त पृथ्वीनां नरकजीवानां वेदना, प्रायुष्यम्, मनुष्यक्षेत्रवर्णनं तिर्यञ्च जीवभेदस्थित्यादीनां प्रतिपादनमस्ति ।
चतुर्थेऽध्याये त्रिपञ्चाशत् (५३) सूत्राणि सन्ति । अत्र देवलोकस्य, देवर्द्धनां तथा तेषां जघन्योत्कृष्टायुष्यवर्णनम् अस्ति ।
पञ्चमेऽध्याये चतुश्चत्वारिंशत् (४४) सूत्राणि सन्ति । अत्र धर्मास्तिकायादीनाम् प्रजीवतत्त्वनिरूपणम्, षड्द्रव्यवर्णनम् अस्ति । जैनदर्शने षद्रव्यारिण स्वीकृतानि तेषु एकं जीवद्रव्यं शेषाणि पञ्चाजीवद्रव्याणि सन्ति ।
odsध्याये षड्विंशति (२६) सूत्राणि सन्ति । अत्र प्रस्रवतत्त्वस्य कारणानां विशदीकरणं स्पष्टरीत्या वर्तते । अस्य प्रवृत्तिः योगानां प्रवृत्त्या भवति । योगाः पुण्यपापयोर्बन्धकाः भवन्ति । अतएव प्रास्रवे पुण्यपापयोः समावेश-कृतो दृश्यते ।
सप्तमेऽध्याये चतुस्त्रिशत् सूत्राणि (३४) सन्ति । अस्मिन् देशविरति-सर्वविरतिव्रतानां तेषामतिचाराणां वर्णनं समुल्लसति ।
श्रष्टमेऽध्याये षड्विंशति सूत्राणि सन्ति । अस्मिन् मिथ्यात्वनिरूपणपुरस्सरं बन्धतत्त्वनिरूपणमस्ति ।
नवमेऽध्याये नवचत्वारिंशत्-सूत्राणि सन्ति । अस्मिन् संवर- निर्जरातत्त्व निरूपणमस्ति ।
दशमेऽध्याये सप्तसूत्राणि ( ७ ) सन्ति । अस्मिन् मोक्षतत्त्ववर्णनमस्ति ।
उपसंहारे द्वात्रिंशत् [३२] श्लोकाः सिद्धस्वरूपस्य सुललितं वर्णनम्, प्रान्ते प्रशस्तिश्लोका: ( ६ ) सन्ति । तैः सार्धमेव ग्रन्थपरिसमाप्तिः कृता ।
तत्त्वार्थ सूत्रस्य भाष्य - टीकाग्रन्थाः
महनीयस्यास्य ग्रन्थरत्नस्य सम्प्रति मुद्रिता अनेके ग्रन्थाः सन्ति । तेषां नामानीत्थम् -
( १ ) श्रोतत्त्वार्थाधिगमभाष्यम् - उमास्वातिमहाराजविरचिता स्वोपज्ञ रचना ।
( २ ) श्री सिद्धसेन गरिण विरचिता भाष्यानुसारिणी टीका । विशदरूपेण विराजते ।
एषा टीका प्रतीव