SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ ( २८ ) उमास्वातिविरचित-'जम्बूद्वीपसमासप्रकरणस्य वृत्ती विजयसिंहसूरीश्वरेणास्य महर्षेर्मातुर्नाम 'उमा' लिखितम् । एतावता मातृपितृसम्बन्धात् 'उमास्वाति' नाम प्रसिद्धम् । तत्त्वार्थाधिगमसूत्रस्य भाष्ये सुस्पष्टमुल्लेखः प्राप्यते यत् उमास्वातिमहाराजः उच्चनागरीशाखायाः आसीत् । उच्चनागरीशाखा भगवतो महावीरस्य पट्टपरम्परायां समागतस्य आर्यदिन्नस्य शिष्यात् पार्यशान्ति-श्रेणिक-समयात् प्रारब्धा। प्रतः वाचकमहर्षिः उमास्वातिमहाराजः विक्रमस्य प्रथमशताब्दीतः प्रारभ्य चतुर्थशताब्दी यावत् कालक्रमे समुत्पन्नः । अर्थात् विक्रमस्य प्रथमचतुर्थशताब्योर्मध्ये तस्य स्थितिकालोऽनुमीयते। विषयेऽस्मिन् निश्चप्रचत्वे किमपि वक्तु लिखितुच न शक्यते । तत्त्वार्थाधिगमस्य महत्ता : जैनागमस्य सकलं प्रामाणिकं सौरस्यं समादाय सन्दब्धमिदं ग्रन्थरत्नं श्वेताम्बरदिगम्बर-परम्परायां समानरूपेण सादरं प्रशंसापदवी प्राप्य विराजतेतराम् । अस्य ग्रन्थस्य दशाध्यायाः सन्ति । तेषु ३४४ सूत्राणि समुल्लसन्ति जैनागमसिद्धान्त सौरभमादाय । सकलेषु सूत्रेषु सूत्रलक्षणं सुदृढतया समुपजृम्भते। सूत्रस्य लक्षणं तावत् अल्पाक्षरमसंदिग्धं सारवद् विश्वतो मुखम् । अस्तोभमनवद्यञ्च, सूत्रं सूत्रविदो विदुः ॥ सूत्रस्य प्रामाणिकमिदं लक्षणं तत्त्वार्थाधिगमसूत्रे प्रतिपन्नमास्ते। अल्पाक्षरता, असंदिग्धता, व्यापकता, सारवत्ता, प्रस्तोभत्वं, पवित्रता च सर्वत्र विराजते-अतो विशुद्धोऽयं सूत्रग्रन्थः । परिष्कृता भाषायोजना स्फुटसंकेतसमन्विताः-सम्प्रेषणशैली विदुषां मनांसि सहसवावर्जयति । अस्य ग्रन्थरत्नस्य प्रथमेऽध्याये पञ्चत्रिंशत् (३५) सूत्राणि सन्ति । तत्र शास्त्रस्य प्राधान्यं, सम्यग्दर्शनलक्षणम् सम्यक्त्वोत्पत्तिः, तत्त्वनामानि, तत्त्वविवेचना, ज्ञानस्वरूपं सप्तनयस्वरूपादीनां वर्णनानि सन्ति । द्वितीयेऽध्याये द्विपञ्चाशत् (५२) सूत्राणि सन्ति । अस्मिन् अध्याये जीवलक्षणम् प्रौपशमिकादिभावानां ५३ भेदाः, जीवभेदाः, इन्द्रिय-गति-शरीरायुष्यस्थितीत्यादीनां वर्णनमस्ति ।
SR No.022535
Book TitleTattvarthadhigam Sutraam Tasyopari Subodhika Tika Tatha Hindi Vivechanamrut Part 07 08
Original Sutra AuthorN/A
AuthorVijaysushilsuri
PublisherSushil Sahitya Prakashan Samiti
Publication Year2001
Total Pages268
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy