________________
तत्त्वार्थभूमिका को
(पांचवें-छठे भाग से उद्धृत) वैदिकपरम्परायां यत्स्थानं वेदानाम्, बौद्धपरम्परायां यत्स्थानं त्रिपिटकानाम्, ईसाईपरम्परायां यत्स्थानं 'बाईबिल'-ग्रन्थस्य, इस्लामपरम्परायां यत्स्थानं कुरानस्य तदेव स्थानं, जैन-परम्परायाम् आगमानां अस्ति । सर्वेषामागमसिद्धान्तानां प्रामाणिकसारांश-सुधासंपृक्त सर्वाङ्गपूर्ण ग्रन्थरत्नं समुल्लसति 'श्रीतत्त्वार्थाधिगमसूत्रम् ।
प्रस्य तत्त्वार्थाधिगमसूत्र-ग्रन्थरत्नस्य प्रणेता पदवाक्यपारावारीणो महर्षिः वाचकप्रवरः श्रीउमास्वातिमहाराजः प्रासीत् । अस्य कालनिर्णयस्तु सम्यक्तया नावधारयितु शक्यते विदुषां विसंवादात् किन्तु श्रीतत्त्वार्थसूत्रभाष्यप्रशस्ती प्राप्तेषु पञ्चसु श्लोकेषु महर्षेः परिचयः प्राप्यते
वाचकमुख्यस्य शिवश्रियः प्रकाशयशसः प्रशिष्येण । शिष्येण घोषनन्दि - श्रमणस्यैकादशाङ्ग - विदः ।। वाचनया च महावाचक-श्रमणमुण्डपादशिष्यस्य । शिष्येण वाचकाचार्य-मूलनाम्नः प्रथितकीर्तेः ।। न्यग्रोधिकाप्रसूतेन विहरता पुरवरे कुसुमनाम्नि । कोभीषणिना स्वाति-तनयेन वात्सीसुतेनाय॑म् । अर्हद्वचनं सम्यग्गुरुक्रमेणागतं समुपधार्य । दुखातं च दुरागम-विहतमति लोकमवलोक्य ।। इदमुच्चै गरवाचकेन सत्त्वानुकम्पया दृब्धम् । तत्त्वार्थाधिगमाख्यं स्पष्टमुमास्वातिना शास्त्रम् ।। यस्तत्त्वाधिगमाख्यं,ज्ञास्यति चकरिष्यतेचतत्रोक्तम् ।
सोऽव्याबाधसुखाख्यं प्राप्स्यत्यचिरेण परमार्थम् ।। तत्त्वार्थाधिगमप्रणेतुर्मातुर्नाम वात्सी, पितुश्च नाम स्वातिरासीत् । एष महर्षिः शिवश्रियः प्रशिष्यः घोषनन्दिनः शिष्योऽभूत् । वाचनागुरोरपेक्षयाऽयं क्षमाश्रमणस्य मुण्डपादस्य प्रशिष्यो, मूलनामकवाचकाचार्यस्य शिष्यः प्रासीत् । अस्य जन्म न्यग्रोधिकायामभवत् ।