SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ ( ३ ) श्रीतत्त्वार्थभाष्योपरि श्रीहरिभद्रसूरीश्वराणां लघुटीका सार्द्धपञ्चाध्यायं यावत्, शेष टीका तु यशोभद्रसूरिणा पूरिता । ( ४ ) तत्त्वार्थटिप्पणम्-चिरन्तनमुनिविरचितम् । ( ५ ) भाष्यतर्कानुसारिणी टीका-महोपाध्याय यशोविजय विरचिता। ( ६ ) गूढार्थदीपिका-विजयदर्शनसूरीश्वरविरचिता। (७) तत्त्वार्थत्रिसूत्री प्रकाशिका-श्रीमल्लावण्यसूरीश्वरविरचिता। (८) सुबोधिका हिन्दीविवेचनामृतम्-प्राचार्यप्रवरश्री सुशीलसूरीश्वर विरचितम् । ( ६ ) गुर्जरभाषा विवेचनम्-मुनिश्रीराजशेखरविरचितम् । (१०) पण्डितश्रीसुखलालेनापि तत्त्वार्थस्य गुर्जरभाषायां विशदं विवेचनं कृतम् । (११) दिगम्बराचार्यपूज्यपादविरचिता-सर्वार्थसिद्धिः टीका । (१२) अकलंकदेवाचार्यविरचिता-राजवात्तिकटीका। (१३) श्लोकवातिकटीका-विद्यानन्दिविरचिता। (१४) तत्त्वार्थस्य एका टीका 'श्रुतसागरी' अपि अस्ति । प्राचार्यश्रीमद्विजयसुशीलसूरीश्वरः अष्टोत्तरशतमहनीथग्रन्थलेखकाः संस्कृत-प्राकृतमर्मज्ञाः स्वनामधन्या प्राचार्यप्रवरा श्रीमद्विजयसुशील-सूरीश्वराः साम्प्रतं वृद्धावस्थायामपि सत्साहित्यसर्जनेऽनवरतं तल्लीनाः विराजन्ते । भवतां जन्म गुर्जरप्रान्तस्य 'चाणस्मा'-नामके ग्रामे वि.सं. १९७३ तमे वर्षेऽभवत् । मातु म चञ्चलदेवी पितुर्नाम चतुरभाईताराचन्द मेहता अस्ति । एष दशवर्षस्य लघुवयसि संयममार्गमनुसरितु प्रबल-भावुकोऽभवत् । पञ्चदश-वर्षस्यावस्थायां वि.सं. १९८८ तमे वर्षे श्रीमद्विजयलावण्यमुनीश्वरेण दीक्षितः । वि.सं. १९८८ तमे वर्षे एवास्य वृहतो दीक्षा शासनसम्राट्-श्रीमद्विजयनेमिसूरीश्वर-करकमलाभ्यां सम्पन्ना । वि.सं. २००७ तमे वर्षे गरिण-पंन्यास-पदवीभ्यामलङ्कृतोऽभवत् । वि.सं. २०२१ तमे वर्षे मुण्डाराग्रामे उपाध्यायाचार्यपदवीभ्यां महिमामण्डितोऽभवत् । शास्त्रविशारद-साहित्यरत्न-कविभूषण-पदवीभिरपि समलङ्कृतोऽभवदेष सिद्धहस्तलेखकः । जैसलमेरतोर्ये श्रासंवेन जैनदिवाकरोपाधिनापि सभाजितोऽयम् । तीर्थप्रभावकाचार्योऽयं
SR No.022535
Book TitleTattvarthadhigam Sutraam Tasyopari Subodhika Tika Tatha Hindi Vivechanamrut Part 07 08
Original Sutra AuthorN/A
AuthorVijaysushilsuri
PublisherSushil Sahitya Prakashan Samiti
Publication Year2001
Total Pages268
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy