________________
( २५ )
उपांगटोकाकारेण श्रीमलयगिरिणा " प्रज्ञापनावृत्तौ” चोक्तम्- तच्चाप्राप्तकारित्वं तत्त्वार्थटीकादौ सविस्तरेण प्रसाधितमिति ततोऽवधारणीयं ।
सम्प्रति मलयगिरिमहाशयस्य टीका न समुपलभ्यते । महामहोपाध्यायेन श्रीयशोविजयवाचकेन तत्त्वार्थ-भाष्यस्य टीका रचितासीत् । सा टीकापि स्खलिता वर्तते ।
तत्त्वार्थस्य रचनाशैली रम्या हृदयंगमा च अस्यैव ग्रन्थस्य सौम्यस्वरूपेण तपस्विना श्रीसुशीलसूरिमहाभागेन टीका नवीना रचिता । श्रयमेव सूरिमहोदयः स्वाध्यायनिष्ठः सुज्ञः सर्वथा तपसि ज्ञाने च नितरां निमग्नः वर्तते ।
सूरिपु 'गवानां श्रुतशास्त्रीयां भक्ति पुरस्कृत्य मया किमपि लिखितमस्ति । नितरां शास्त्ररसस्नातनिष्णाताः भूत्वा भूयोभूयः स्वाध्यायसमुत्कर्षं समुन्नतं कर्तुं लेखनीं च श्रात्मलेखनालोकोत्तर हितैषिणीं विदधातु विधिज्ञाः सूरिवराः सुतरां भूयासुः । चात्मले खिनो स्वात्महस्तगता सुशोभते सर्वथा सर्वेषां ।
इदं तत्त्वार्थ सूत्रं श्रुतसिद्धान्तनिष्पन्नं, संसारक्षयकारणं, मुमुक्षूणां चात्मपथपाथेयं सदार्हत्पादपीयूषं ज्ञानदर्शनचारित्रलालिते स्वाध्याय- तपः समाधिविभूषितं, प्रमेयप्रकाशपु ंजं पुरातनी पावनी - देववाणी-दुन्दुभिरूपं, शब्दब्रह्मपांचजन्यं, गुरुसेवासमुपलब्धसौष्ठवतन्यं, यः कश्चित् समुचितां श्रमण संस्कृतिं ज्ञातु कामः सः शुद्धचेतसा च सुमेधया सततं पठेत् - पाठयेत् चैनं सूत्रं ।
सूत्रमेतत् शास्त्रज्ञनिष्ठानां नियामकं, निर्ग्रन्थसिद्धान्तसारकलितं निगमागमन्यायनिर्मथितम् । विद्याविवेक-शौर्य-धैर्य-धनम् । नित्यं सेव्यं ध्येयं परिशीलनीयं च ।
अजस्रमभ्यासमुपेयुषा विद्यावता सूत्रकारेण श्रात्मन: स्मृतिपटलात् पटीयांसं शिक्षासंस्कारसमभिरूढं गोत्रगौरवं न त्यक्तं । यद्यपि जातिकुलवित्तमदरहितं श्रामण्यं स्वीकृतं ।