________________
( २४ ) शताब्द्यां विद्याचणः श्रीविद्यानन्दी श्लोकवार्तिककारत्वेन तत्त्वार्थसूत्रस्य व्याख्याता जातः । अनेनैव महाशयेन महामीमांसकस्य श्रीकुमारिलमहाभागस्य वैदुष्यं प्राईद्विद्या-विमर्शदार्शनिक-तुलासु तोलितम् । पुनः श्रुतसागराख्यः निर्वसननिर्ग्रन्थः प्रज्ञापुरुषः श्रीतत्त्वार्थसूत्रस्य वृत्तिकारः समयश्रेण्यां जातः । -
इत्थं दिगम्बरवृन्देषु विबुधसेन-योगीन्द्र-लक्ष्मीदेव-योगदेवाभयनन्दि-प्रमुखाः सुधयः श्रीतत्त्वार्थसूत्रस्य तलस्पशिनः संजाताः ।
श्वेताम्बर-वाङ्मये तत्त्वार्थसूत्रमनुसृत्य विविधास्टीकाः विद्यन्ते । अस्यैव सूत्रस्योपरि महामान्य-श्रीउमास्वातिमहाशयस्य स्वोपज्ञं भाष्यं वर्तते । तस्मिन् भाष्यग्रन्थे प्रात्मपरिचयं प्रदत्तवान् स्वयंश्रीवाचकवरेण्यः ।
__ श्रीतत्त्वार्थकारः सुतश्चासीत् वात्सीमातुः । स्वातिजनकस्य पुत्रश्च । उच्चनागरीयशाखायाः श्रमणः न्यग्रोधिकायां समुत्पन्नः । गोत्रेण कोभीषणिश्चासीत् । पाटलीपुत्रनगरे रचितवान् सूत्रमिमं ।
श्रामण्यव्रतदाता घोषनन्दी, प्रज्ञापारदर्शी श्रुतशास्त्रे-एकादशाङ्गविदासीत् । विद्यादातृणां गुरुवराणां वाचकविशेषानां मूलशिवश्रीमुण्डपादप्रमुखानां श्लाघनीया परम्परा विद्यते। पुरातनकाले विद्यावंशस्य सौष्ठवं समीचीनं दृश्यते । तत्त्वार्थकारः श्रीउमास्वाति विद्यावंशविशिष्टविज्ञपुरुषः प्रतिभाति ।
तत्त्वार्थस्य टीकाकारः श्रीसिद्धसेनगणि “गन्धहस्ती” इत्याख्यया प्रसिद्धिमलभत् । अयमेव सिद्धसेनगणि मल्लवादिनः नयचक्रग्रन्थस्य टीकाकारस्य श्रीसिद्धसूरिमहोदयस्यान्वयेऽभूत् ।
अपरश्च टीकाकारः श्रीयाकिनीसूनुः श्रीहरिभद्र-महाभागः, अयमेव हरिभद्रसूरिः तत्त्वार्थस्य लघुवृत्तिटीका पूर्णां न चकार । यशोभद्रेण पूर्णा कृता।