________________
[ ५३
घटपर्यायव्ययेन मृत्तिकायाः एव कपालरूपेणोत्पत्तिः । अत एव घटस्य व्ययकपालोदय मृत्तिका धौव्यमेकमेवेकस्मिन्क्षणे जायते । श्रतः सत् युगपत् उत्पादव्यय - ध्रौव्यात्मकत्वं सिद्धमेव ।
५।२६ ]
पञ्चमोऽध्यायः
एवं च संसारापवर्गभेदाभावः । कल्पितत्वेऽस्य निःस्वभावतयानुपलब्धिप्रसङ्गात् । सस्वभावत्वे त्वेकान्त ध्रौव्याभावस्तस्यैव तथा भवनादिति । तत् तत् स्वभावतया विरोधाभावात् तथोपलब्धिसिद्धेः । तद्भ्रान्तत्वे प्रमाणाभावः । योगिज्ञानप्रमारणाभ्युपगमे त्वभ्रान्तस्तदवस्थाभेदः । अन्यथा न मनुष्यादेर्देवत्वम् ।
एवं यमादिपालनानर्थक्यम् । एवं च सति " अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहा यमाः ।" " शौच संतोषतपः स्वाध्यायेश्वर - प्रणिधानानि नियमाः । " इति श्रागमवचनं वचनमात्रम् ।
यदि पदार्थध्रौव्यस्वरूपम् तर्हि प्रात्मनः अवस्थायावस्थाकारणं अशक्यं ततः यमादिनियमाः किम् ? प्रत एव श्रात्मनः ध्रौव्यमेव नैवोत्पादद्रव्यमपि । एवमेकान्ता - Satosपि सर्वथा तदभावापत्तेः तत्त्वतोऽहेतुकत्वमेवावस्थान्तरमिति । न हेतु स्वभावतयोर्ध्वं तद्भावः तत् स्वभावतयैकान्तेन धौव्यसिद्धेः । यदा हि हेतोरेवासौ स्वभावो यत् तदनन्तरं तद् भावस्तदा ध्रुवोऽन्वयस्तस्यैव तथाभवनात् । एवं च तुलोन्नामावनामवद्धेतुफलयोः युगपत् व्ययोत्पादसिद्धिरन्यथा तत् तत् हि प्रतिरिक्ततर विकल्पायामयोगात् । तन्न ।
एवञ्च सम्यग्दृष्टिः सम्यग् संकल्पः सम्यग्वाक्, सम्यग्मार्गः सम्यगार्जवः, सम्यग्व्यायामः, सम्यग् स्मृतिः, सम्यग् समाधिरिति वाग्वैयर्थ्यम् । एवं घटव्ययवत्या मृदः कपालोत्पादभावात् उत्पाद-व्यय- ध्रौव्ययुक्त सदिति ।
क्षणे क्षणे सर्वव्यक्तिषु प्रन्यत्वं नियतं न च विशेषतः । पचित्योराकृतिजातिव्यवस्थानात् सम्भवति ।
एतद् सत्योश्चित्य
वस्तुस्वभावानुसारेणैव नरकादिगतिविभेदः संसार - मोक्षयोश्च भेदोऽपि सिद्धः । तद्धेतुः मुख्यतया क्रमेण हिंसादिः सम्यक्त्वादिश्च ।
वस्तुनि उत्पादादियुते एतदुपपद्यते । तद्रहिते नीत्या तद् प्रभावात् सर्वमपि न युज्यते । उपादानहेतुविना नोत्पादः भवति, न चास्य तावदवस्थ्ये । श्रतस्त्रयात्मकेऽस्मिन् उत्पादादिकसम्भवम् ।