________________
३।१५ ] तृतीयोऽध्यायः
[ ५१ ढाई द्वीप के बाहर मनुष्यों का गमनागमन होता है। जैसे-विद्याधर और चारण मुनि नन्दीश्वरद्वीप तक जाते हैं। किसी के द्वारा अपहरण से भी मनुष्य ढाई द्वीप के बाहर ले जाये जाते हैं। किन्तु वहाँ पर कभी मनुष्य का जन्म या मरण नहीं होता है। इसलिए पुष्करवर के अर्ध भाग के बाद आये हुए वलयाकार पर्वत का नाम मानुषोत्तर पर्वत है। यहाँ पर विशेष यह है कि व्यवहार सिद्ध काल, अग्नि, चन्द्र और सूर्यादि का परिभ्रमण, उत्पातसूचक गान्धर्वनगर इत्यादिक चिह्न प्रमुख पदार्थ इस ढाई द्वीप के बाहर नहीं होते हैं। (३-१४)
* मनुष्यस्य भेदाः *
卐 मूलसूत्रम्
प्रार्या म्लेच्छाश्च ॥ ३-१५ ॥
* सुबोधिका टीका * मूलरूपेण मनुष्याः द्विविधाः । ते आर्य-म्लेच्छभेदैः विभक्ताः। तत्र आर्याः षड्विधाः । तथाहि-क्षेत्रार्याः, जात्यार्याः, कुलार्याः, कर्मार्याः, शिल्पार्याः, भाषार्याश्चेति । तत्र क्षेत्रार्याः पञ्चदशसु भूमिषु जाताः। तथा च भरतेषु अर्धषड्विंशतिषु जनपदेषु जाताः । अन्येषु शेषेषु च चक्रवत्तिविजयेषु ।
जात्यार्याः-यथा क्षत्रियवंशेषु इक्ष्वाकुवंशधरिणः क्षत्रियाः। विदेहा हरयोऽम्बष्ठाः ज्ञाताः कुरवो वुवुनाला उग्रा भोगा राजन्यादयः। क्वचित् भोगस्थाने भोजाः अपि। कुलापेक्षया ये आर्याः जाताः ते कुलार्याः। कुलार्याः कुलकराश्चक्रवत्तिनः बलदेवा वासुदेवा ये चान्ये आतृतीयादा पञ्चमादा सप्तमाद् वा कुलकरेभ्यो वा विशुद्धान्वयाः ये विशुद्धवेशप्रकृतिधारिणः सन्ति । अनाचार्यकर्मापेक्षया ये चार्याः ते कार्याः। यथा यजन-याजन-अध्ययन-अध्यापनप्रयोग-कृषि-लिपि-वाणिज्ययोनिपोषणः वृत्तयः ।
शिल्पा-तन्तुवाय-कुलाल-नापित - तुन्नवाय - देवटादयोऽल्पसावद्या अगर्हिताः जीवाः ।
भाषाः -नाम ये शिष्टभाषानियतवर्ण लोकरूढस्पष्ट शब्दं पञ्चविधानामपि आर्याणां संव्यवहारं भाषन्ते ।
अनाचार्यककर्मापेक्षया कार्याः शिल्पार्येभ्यः एते अल्पसावद्याः। अत एते आजीवनागर्हिताः ।