________________
श्री तत्त्वार्थाधिगमसूत्रे
[ ३।१५
सारांशतः मनुष्याः द्विविधाः, आर्याः म्लेच्छाच । गुणाश्रयाः प्रांर्याः, ये च पञ्चविंशजनपदेषु जायन्ते प्रायः तैवार्याः । षड्विधार्याः, अतः क्षेत्रजातिकुलकर्मशिल्पभाषापेक्षया दर्शनज्ञानचारित्रविषये येषामाचरणं शीलशिष्ट: अभिमतं न्यायधर्मेणाविरुद्ध ते च आर्याः । येषामाचरणं शीलश्च श्रार्यविपरीतं ते अनार्याः ।
५२ ]
येषाञ्च भाषाव्यक्तानियमिता ते अनार्याः । आर्य-विपरीताचरणाः म्लेच्छाः मिलशः वा । ते च शक-यवन- किरात - काम्बोज - बाल्हीकप्रभृतयः ।
हिमवतश्चतसृषु विदिक्षु त्रीणि योजनशतानि लवणसमुद्रमवगाह्य चतसृणां मनुष्य विजातीनां चत्वारोऽन्तरद्वीपा जायन्ते त्रियोजनशतविष्कम्भायामाः । ते च एकोरुकाणां आभाषकारणां लाङ्गुलीनां वैषाणिकारणामिति । चत्वारि योजनशतानि अवगाह्य चतुर्योजनशतायामविष्कम्भाः एवान्तरद्वीपाः । ते च हयकरर्णानां गजकर्णानां गोकर्णानां शष्कुलिकरर्णानामिति । पञ्चशतानि श्रवगाह्य पञ्च योजनशतायां प्राविष्कम्भाः एवान्तरद्वीपाः । तद्यथा - गजमुखानां व्याघ्रमुखानां श्रादर्शमुखानां गोमुखानामिति ।
एतेषु प्रदेशेषु जाताः म्लेच्छाः नामाकृतयः नैव भवन्ति, किन्तु स्वरूपसौन्दर्येण तु प्रतिशोभनाः सौन्दर्ययुक्ता गौराः भवन्ति । सर्वेषु अन्तरद्वीपेषु अपि एवमेव । षड्योजनशतान्यवगाह्य तावदायामविष्कम्भा एवान्तरीयाः द्वीपाः । तेच अश्वमुखानां हस्तिमुखानां सिंहमुखानां व्याघ्रमुखानामिति । सप्तयोजनशतान्यवगाह्य तावदायामविष्कम्भाः एवान्तरीयाः द्वीपाः । ते च अश्वकर्ण सिंहकर्ण- हस्तिकर्ण - कर्णप्रावरणनामानः । अष्टौ योजनशतानि अवगाह्य अष्टयोजनशतायां श्राविष्कम्भाः एवान्तरीयाः द्वीपाः । तद्यथा-उल्कामुखविद्युज्जिह्वमेषमुख विद्युद्दन्तनामानः ।
नवयोजनशतायां आविष्कम्भाः एवान्तरीयाः द्वीपाः भवन्ति । ते च घनदन्तगूढदन्त - विशिष्टदन्त- शुद्धदन्तनामानः ।
एकोरुकाणामेरुकद्वीपः । एवं शेषाणामपि शिखरिणोऽपि एवमेव । यथा हिमवतः प्रष्टाविंशति अन्तरीयाः तथैव शिखरीपर्वतस्यापि श्रष्टाविंशति अन्तरीयाः । सर्वे च एते षट्पञ्चाशत् सङ्ख्यकाः । एतेषु द्वीपेषु वास्तव्याः म्लेच्छाः अन्तद्वजाः म्लेच्छेति नामधेयानि ।। ३-१५ ।।