________________
श्रीतत्त्वार्थाधिगमसूत्रे
[ ३१ अम्बुवाताकाशप्रतिष्ठा इति सिद्ध घनग्रहणं क्रियते यथा प्रतीयते घनमेवाम्बु अधः वसुधायाः, वातास्तु घनास्तनवश्चेति । तदेवं खरपृथिवी पङ्कप्रतिष्ठा, पङ्को घनोदधिवलयप्रतिष्ठो घनोदधिवलयं घनवातवलयप्रतिष्ठं घनवातवलयं, तनुवातवलयप्रतिष्ठं ततो महातमोभूतमाकाशम् । समस्तं चैतत् पृथिव्यादि तनुवातवलयान्तमाकाशप्रतिष्ठम् । तथैवमाकाशं त्वात्मप्रतिष्ठम् । प्रोक्तमवगाहनमाकाशस्येति । तद् अनेनैवानुक्रमेण लोकानुभावसंनिविष्टा असङ्ख्य ययोजनकोटीकोटयो विस्तृताः सप्तपृथिव्यो रत्नप्रभाप्रमुखाः सन्ति एव ।
यथा प्रथमा पृथिवी निरूपिता तथैवाऽन्यापि । लोकोऽयं सन्निवेशः अनादिअकृत्रिमः । नैवेश्वर - रचितः । जैनागमशास्त्रेषु लोकस्य स्थितिः अष्टविधः । यथानुक्रमेण-यथा-(१) आकाशप्रतिष्ठितवातः, (२) वातप्रतिष्ठितोदधिः, (३) उदधिप्रतिष्ठितपृथिवी, (४) पृथिवीप्रतिष्ठितत्रस-स्थावरप्राणाः, (५) जीवप्रतिष्ठितअजीवः, (६) कर्मप्रतिष्ठितजीवः, (७) जीवसंग्रहीत-अजीवः, (८) कर्मसंग्रहीतजीवश्चेति ।
अत्राधोऽधः शब्दस्यार्थ पृथिवीषु तिर्यग्-अभावः । सारतः समग्रलोकेषु सप्तभूमयः अधोलोकेषु अपि सप्तभूमयः नेत्थम् । यतः ईषत्-प्राग्भारनामकाष्टमापि सङ्ख्या वर्तते।
___ अत्रोच्यते-सप्त ग्रहणं नियमाथं रत्नप्रभाद्याः नैवाभूवन् अनेकशः ह्यनियतसंख्या इति । सर्वाश्चैता भूमयः अधोऽधः पृथुतरा छत्रातिच्छत्रसंस्थिताः । घर्मा वंशा शैलाञ्जनारिष्ठा माघव्या माघवीति तासां नामधेयानि यथासंख्यमेवं भवन्ति । रत्नप्रभा घनभावेनाशीतं योजनशतसहस्र शेषा द्वात्रिंशदष्टाविंशतिविंशत्यष्टादशषोडशाष्टाधिकमिति । सर्वे घनोदधयो विंशतियोजनसहस्राणि । घनवात-तनुवातास्तु असंख्येयानि अधोऽधस्तु घनतराविशेषेणेति ।। ३-१॥
* सूत्रार्थ-रत्नप्रभा, शर्कराप्रभा, वालुकाप्रभा, पङ्कप्रभा, धूमप्रभा, तमःप्रभा और महातमःप्रभा। अधोलोक की ये सात भूमियाँ-पृथ्वियां हैं। प्रत्येक भूमिपृथ्वी घनाम्बु, घनवात तथा प्राकाशप्रदेश के आधार से स्थित अर्थात् ठहरी हुई हैं । ये सातों पृथ्वियां एक-दूसरे के नीचे हैं और नीचे की ओर अधिकाधिक विस्तार वाली हैं ।। ३.१ ॥