________________
॥ अहम् ॥
॥ श्रीतत्त्वार्थाधिगमसूत्रम् ॥
तस्यायं
mmnomnomorsmanammomon
तृतीयोऽध्यायः
wwwww
अत्राह-प्रोक्त भवता नारकाः, इति गति स्वीकृत्य संसारवत्तिजीवस्य प्रौदयिको भावः । तथा संसारे जन्मसु नारक-देवानां जीवानामुपपातो भवति। नारकाणां स्थितौ च वक्ष्यति । प्रास्रवतत्त्वेषु ब्रह्वारम्भ-परिग्रहत्वं च नरकगतेर्जीवस्य नारकस्यायुषः इति । तत्र के नारकाः, क्व नाम चेति ? अत्रोच्यते
* नरकस्य सप्तपृथ्वीनां नामानि * 9 सूत्रम्रत्न-शर्करा-वालुका-पंक-धूम-तमो-महातमः प्रभाभूमयो घनाम्बुवाताssकाशप्रतिष्ठाः सप्ताऽधोधः पृथुतराः ॥३-१॥
__* सुबोधिका टीका * नरकेषु भवाः नारकाः। तेषामर्थबोधयितु अस्मिन् तृतीयाध्याये प्रोक्तम् ।
सप्ताधोलोकभूमयः, एताश्च रत्नप्रभा, शर्कराप्रभा, वालुकाप्रभा, पङ्कप्रभा, धूमप्रभा, तमःप्रभा, महातमःप्रभा इत्येता भमयः घनाम्बुवाताकाशप्रतिष्ठाः भवन्त्येकैकशः सप्त अधोऽधः । रत्नप्रभानरकस्य अधोभागे शर्कराप्रभानरकः, शर्कराप्रभानरकस्य अधोभागे वालुकाप्रभानरकः, वालुकाप्रभानरकस्य अधोभागे पङ्कप्रभानरकः, पङ्कप्रभानरकस्य अधोभागे धूमप्रभानरकः, धूमप्रभानरकस्य अधोभागे तमःप्रभानरकः, तमःप्रभानरकस्य अधोभागे महातमःप्रभा नरकश्चेति ।