________________
४८ ] श्रीनत्त्वार्थाधिगमसूत्रे
[ ४।२२ सागरोपमारिण स्थितिः तस्य तावत् स्वर्धमासेषु उच्छ्वासः तावत्स्वेव वर्षसहस्रषु आहारः । देवानां सवेदनाः प्रायेण भवन्ति न कदाचिद् असवेदनाः । यदि असद्वेदनाः भवन्ति अन्तमुहूर्त पर्यन्ता एव जायन्ते, न परतोऽनुबद्धाः। सवेदनास्तु उत्कृष्टेन षण्मासान् जायन्ते ।
उपपातः-पारणाच्युतादूर्ध्वमन्यतीर्थानामुपपातो न भवति । स्वलिङ्गिनां भिन्नदर्शनानामात्रैवेयकेभ्यः उपपातः । अन्यस्य सम्यग्दृष्टे: संयतस्य भजनीयं आ सर्वार्थसिद्धात् ।
ब्रह्मलोकादूर्ध्वमासर्वार्थसिद्धाच्चतुर्दशपूर्वधराणामिति । अनुभावो विमानानां सिद्धिक्षेत्रस्य चाकाशे निरालम्बस्थितौ लोकस्थितिरेव हेतुः। लोकस्थितिर्लोकानुभावो लोकस्वभावो जगद्धर्मोऽनादिपरिणामसन्ततिः। सर्वे देवेन्द्राश्च ग्रैवेयादिषु च देवाः भगवतां परमर्षीणार्महतां जन्माभिषेकनिष्क्रमणज्ञानोत्पत्तिमहासमवसरणनिर्वाणकालेषु आसोनाः शयिताः स्थिता वा सहसवासनशयनस्थानाश्रयैः प्रचलन्ति । शुभकर्मफलोदयात् लोकानुभावत एव वा। ततो जनितोपयोगाः तां भगवतां अनन्यसदृशीं तीर्थङ्करनामकर्मोद्भवां धर्मविभूति अवधिज्ञानेन आलोच्य संजातसंवेगाः सद्धर्मबहुमानात् केचिद् आगत्य भगवत् पादमूलं स्तुति-वन्दनोपासनहितश्रवणैरात्मानुग्रहमाप्नुवन्ति । केचिदपि तत्रस्था एव प्रत्युपस्थापनाञ्जलिप्रणिपातनमस्कारोपहारैः परमसंविग्ना: सद्धर्मानुरागोत्फुल्लनयनवदनाः समभ्यर्चयन्ति ।।
उपरि-उपरि देवानां गतीत्यादि या न्यूना कथिता तेन ते देवाः मनुष्यलोके नैवायान्ति । कदाचिद् अायान्ति पुण्यकर्मोदयः वा अनादिपारिणामिकप्रकृत्यास्तु पञ्चकल्याण कावसरेषु एव आयान्ति; केचन तु तत्रापि नायान्ति ।। ४-२२ ।।
* सूत्रार्थ-गति, शरीर की ऊँचाई, परिग्रह और अभिमान इन चार विषयों की अपेक्षा ऊपर-ऊपर के देव हीन हैं ।। ४-२२ ॥
विवेचनामृत 卐 अब गत्यादि चार विषयों का वर्णन करते हैं। जिसमें नीचे की अपेक्षा ऊपर-ऊपर के देवों में न्यूनता पाई जाती है।
(१) गति-यहाँ पर गतिशब्द से अन्य स्थल में गमन करने की शक्ति विवक्षित है। जिन देवों की जघन्यस्थिति दो सागरोपम की है, वे देव नीचे सातवीं तमस्तमःप्रभा नरक पृथ्वी पर्यन्त तथा तिर्यच असंख्य योजन तक जा सकते हैं।