________________
४।२२
]
चतुर्थोऽध्यायः
[ ४७
ॐ ऊपरि-ऊपरि गत्यादिकस्य *
卐 मूलसूत्रम्गति-शरीर परिग्रहाभिमानतो होनाः ॥ ४-२२ ॥
* सुबोधिका टीका * गतिविषयः कायमहत्त्वैः महापरिग्रहाभिमानैः चोपर्युपरि हीनाः। ते च द्विसागरोपमजघन्यस्थितीनां देवानां आसप्तम्यां गतिविषयस्तिर्यगसंख्येयानि योजनकोटीकोटीसहस्राणि । ततः परतो जघन्यस्थितीनां एकैकहीना भूमयो यावत्तृतीयेति । गतपूर्वाश्च गमिष्यन्ति च तृतीयां देवाः परतस्तु सत्यपि गतिविषयेन गतपूर्वानामपि गमिष्यन्ति । महानुभावक्रियातः औदासीन्यात् ऊपरि ऊपरि देवाः गतिमन्ताः न भवन्ति ।
सौधर्मेशानयोः कल्पयोर्देवानां शरीरच्छायः सप्तारत्नयः । उपरि-उपरि. च परिद्वयोर्द्व योः एकैकारत्निींना प्रासहस्रारात् । प्रानतादिषु तिस्रः। ग्रेवेयकेषु द्वे। अनुत्तरे एका इति ।
सौधर्मदेवलोके विमानानां द्वात्रिंशच्छतसहस्राणि । ऐशानदेवलोके विमानानां अष्टाविंशतिः । सानत्कुमारदेवलोके द्वादशः । माहेन्द्रदेवलोकेऽष्टौ। ब्रह्मलोकदेवलोके चत्वारि शतसहस्राणि । लान्तकदेवलोके पञ्चाशत्सहस्राणि । महाशुक्रदेवलोके चत्वारिंशत्सहस्राणि । सहस्रारदेवलोके षट्सहस्राणि। प्रानत-प्राणत-पारणअच्युतेषु देवलोकेषु सप्त शतानि । अधोग्र वेयकाणां शतमेकादशोत्तरम् । मध्येग्रेवेयकाणां सप्तोत्तरम् । उपरि ग्रैवेयकाणां एकमेव शतम् । अनुत्तराः पञ्चैवेति । एवं ऊर्ध्वलोके वैमानिकानां निखिलविमानपरिसंख्या चतुरशीतिः शतसहस्राणि सप्तनवतिश्च सहस्राणि त्रयोविंशानोति । स्थानपरिवारशक्तिविषयसंपत्स्थितिषु अल्पाभिमानाः परमसुखभागिन उपरि-उपरि भवन्तीति ।
तेषां दुःखान्तरबाह्यानां प्रभावः । सुखस्य हेतवः परिवर्धन्ते उपर्युपरि। अतः उपर्यु परिदेवा अधिकाधिकोत्तमसुखभोगिनः भवन्ति । उपर्युपरि वैमानिकदेवेषु उच्छ्वास-आहार-वेदनोपपातानुभावाः अपि हीनाः ।
सर्वजघन्यस्थितीनां देवानां उच्छवास: सप्तसु स्तोकेषु पाहार श्चतुर्थकालः । पल्योपमस्थितीनां अन्तर्दिवसस्य उच्छ्वासः पृथक्त्वस्य पाहारः । यस्य यावन्ति