________________
४२ ] श्रीतत्त्वार्थाधिगमसूत्रे
[ ४।२१ [यहाँ पर श्वेताम्बर सौधर्मादि बारह कल्प मानते हैं। जिनका वर्णन पूर्व में प्रा गया है। इस सम्बन्ध में दिगम्बर सोलह कल्प मानते हैं तथा दो-दो कल्पों को समश्रेणी में रहे हुए मानते हैं। जैसे--समश्रेणी में सौधर्म और ऐशान । तथा उसके ऊपर समश्रेणी में सानत्कुमार और माहेन्द्र । इस तरह कल्प के सम्बन्ध में दिगम्बरों की मान्यता जाननी।] ।। ४-२० ॥
* विषयस्य न्यूनाधिकता *
मूलसूत्रम्
स्थिति-प्रभाव-सुख-द्युति-लेश्या-विशुद्धीन्द्रियाऽवधिविषयतोऽधिकाः ॥ ४-२१॥
* सुबोधिका टीका * उपर्युक्तसौधर्मादिककल्पोपपन्न-कल्पातीतानां देवानां पूर्वपूर्वतः उपर्युपरि एभिः स्थित्यादिभिः अर्थैः अधिका भवन्ति । तेषु च स्थितिरुत्कृष्टा जघन्या च । अचिन्त्यशक्तिप्रभावेति पर्यायः । यः प्रभावो निग्रहानुग्रहविक्रियापराभियोगादिषु सौधर्मकाणां सोऽनन्तगुणाधिक उपर्युपरि। मन्दाभिमानतया तु अल्पतरसंक्लिष्टत्वाद् एते न प्रवर्तन्त इति ।
क्षेत्रस्वभावजनिताच्च शुभपुद्गलपरिणामात् सुखतो द्युतितश्चानन्तगुण प्रकर्षेणाधिकाः । लेश्याविशुद्धयाधिकाः लेश्यानियमः कथ्यते परतः किन्तु इह तु वचने प्रयोजनं यथा लभ्येत यत्रापि विधानतः तुल्यास्तत्रापि विशुद्धितोऽधिका भवन्ति । कर्मविशुद्धित एव बाधिका भवन्ति । इन्द्रियविषयतोऽधिकाः यदिन्द्रियपाटवं दूरादिष्टविषयोपलब्धौ सौधर्मदेवानां तत् प्रकृष्टतरगुणत्वात् अल्पतरसंक्लेशत्वाच्चाधिकमुपर्यु परि ।
अवधिविषयतोऽधिकाः सौधर्मेशानयोर्देवा अवधिविषयेणाधो रत्नप्रभां पश्यन्तितिर्यगसंख्येयानि योजनशतसहस्राणि ऊर्ध्वमास्वभवनात् । सनत्कुमारमाहेन्द्रयोः शर्कराप्रभां अवलोकयन्ति । तिर्यगसंख्येयानि योजनशतसहस्राणि ऊर्ध्वमास्वभवनात् इत्येवं शेषाः क्रमशः अनुत्तरविमानवासिनस्तु कृत्स्ना लोकनाडी पश्यन्ति । येषामपि क्षेत्रतस्तुल्योऽवधिविषयः तेषां उपरि-उपरि विशुद्धितोऽधिको भवतीति । तत् सर्वनिर्दिष्टम् ।