________________
३२ ]
श्रीतत्त्वार्थाधिगमसूत्रे
[ ४१५ ___ इसी भांति चन्द्रमण्डल इत्यादिक का भी जो प्रमाण मनुष्यलोक में कहा है, उससे प्राधा मनुष्यक्षेत्र के बाहर के चन्द्रमण्डलादि का समझना ।। (४-१४)
* ज्योतिष्कगतेः कालविभागः * + मूलसूत्रम्
तत्कृतः कालविभागः ॥ ४-१५॥
* सुबोधिका टीका * वर्तना परिणामक्रिया परत्वापरत्वलक्षणकालः । कालोऽनन्तसमयः वर्तनादिलक्षणः। तस्य विभागो ज्योतिष्काणां गतिविशेषः कृतश्चारविशेषण हेतुना । सूर्यचन्द्रमसोः गतिः चारः कथ्यते। चारोऽयं विभिन्नः सूर्यचन्द्रयोः। तद्यथाअणुभागाश्चारा अंशाः कला लवा नालिका मुहूर्ताः दिवसाः रात्रयः पक्षाः मासाः ऋतयः अयनानि संवत्सराः युग मिति लौकिकसमो विभागः । पुनरन्यो विकल्पः प्रत्युत्पन्नोऽतीतोऽनागत इति त्रिविधः । पुनस्त्रिविधः संख्येयः, असंख्येयश्चानन्त इति ।
__ उपर्युक्तयोऽपि कालविभागः कृतः तत्र सूक्ष्मतमः समयः । तस्य परमसूक्ष्मक्रियस्य सर्वजघन्यगतिपरिणतस्य परमाणोः स्वावगाहनक्षेत्रव्यतिक्रमकालेति आख्यातस्य समयेति परमदुरधिगमोऽनिर्देश्यः । ते हि भगवन्त परमर्षयः केवलिनः मात्र जानन्ति । न तु निर्दिशन्ति परमनिरुद्धत्वात् । परमनिरुद्धे हि, तस्मिन् समये भाषाद्रव्याणां ग्रहणप्राकृतयोः करणप्रयोगः नैव सम्भव भवति ।
असंख्यातसमयानामेकावली प्रावलिका कथ्यते । ता संख्येया: उच्छवासः तथा निश्वासः । यः कायेनाक्षीणः बलीश्च वर्त्तते । पट्विन्द्रियस्य तस्य कल्पस्य मध्यवयसः स्वस्थमनसः पुंसः प्राणः । ते सप्त स्तोकः । ते सप्त लवः, तेऽष्टात्रिंशदधु च नालिका। ते द्वे मुहूर्तः । ते त्रिंशदहोरात्रम् । तानि पञ्चदश पक्षः । तौ च द्वौ सित-कृष्णौ मासः । तौ द्वौ मासावतुः । ते त्रयोऽयनम् । ते द्वे संवत्सरः (वर्षः) ते पञ्चचन्द्रचन्द्राभिवधित चन्द्राभिवधिताख्या युगम् । तन्मध्ये अन्ते च अधिकमासको । सूर्यसवनचन्द्रनक्षत्राभिवधितानि युगनामानि। शतवर्षसहस्र चतुरशीतिगुणितं पूर्वाङ्गम् । पूर्वाङ्गशतसहस्र चतुरशीति गुणितं पूर्वम् । एवं तानि अयुतकमलनलिनकुमुदतुटयडडाववाहाहाहूहू-चतुरशीतिशतसहस्रगुणाः सङ्ख्येयः कालः । अतः ऊर्ध्वमुपमानियतं कथयिष्यते ।