________________
अ०२। सू० ४६ |
द्वितीयोऽध्यायः ।
५६
. किं चान्यदित्यादि। न केवलमन्वर्थसंज्ञाख्या नद्यारेणैव विशेषः शरौराणामन्येभ्यो पि हेतुभ्यः सम्भवत्येव कारणादिभ्यः ॥ तत्र कारणतस्तावत् । स्थूलपुद्गलोपचितमूर्ति औदारिकं । न
तथा वैक्रियादौनि । परं परं सूक्ष्ममिति वचनात् ॥ तथा 5 विषयकृतो भेदः। विद्याधरौदारिकशरौराणि प्रत्यानन्दौश्वरादौदारिकस्य विषयः जकाचारणं प्रत्यारुचकवरपर्वतात्तिर्यक् अर्धमापण्डकवनात् । वैक्रियममये यद्वीपसमुद्रविषयम् । श्राहारकस्य यावन्महाविदेहक्षेत्राणि । तैजसकार्मणयोरासर्व
लोकात् ॥ तथा स्वामिकृतो विशेषः । औदारिकस्य तिर्य10 अनुष्याः । वैक्रियस्य देवनारकाः तिर्यन्मनुष्याश्च केचित् ।
आहारकस्य चतुर्दशपूर्वधरमनुष्यसंयताः । तैजसकार्मणयोः सर्वसंसारिणः ॥ तथा प्रयोजनकृतो भेदः । औदारिकस्य धर्माधर्मसुखदुःखकेवलज्ञानावाप्यादि प्रयोजनम् । वैक्रियस्य स्थूल
सूक्ष्मैकत्वव्योमचरचितिगतिविषयाद्यनेकशक्षण विभूतिः । 15 श्राहारकस्य सूक्ष्मव्यवहितदुरवगाहार्थव्यवच्छित्तिः । तेजमस्याहार
पाकः शापानुग्रहप्रदानसामर्थ्य च । कार्मणस्य भवान्तरगतिपरिणामः ॥ तथा प्रमाणतो भेदः। मातिरेकं योजनसहस्रमौदारिकम् । योजनलक्षप्रमाणं वैक्रियम्। रत्निप्रमाण
माहारकम् । लोकायामप्रमाणे तैजसकार्मणे ॥ प्रदेश20 सङ्ख्यातो भेदः। प्रदेशतो ऽमङ्ख्य यगुणं प्राजमात् अनन्तगुण
* B संज्ञानदा । + K चापाण्डक।
+ II 381 K तेषां for नथा।
|| B लक्षणविभूति ।