________________
[अ० २ । सू० ४६ 1]
द्वितीयोऽध्यायः ।
त्मानं प्रकाशयत्यन्यानि च ट्रयाणि न चास्यान्यः प्रकाशकः । एवं कार्मणमात्मनश्च कारणमन्येषां च शरीराणमिति ॥
अत्राह । श्रौदारिकमित्येतदादीनां शरीरसंज्ञानां कः पदार्थ इति । अत्रोच्यते । उगतारमुदारम् । उत्कटार5 मुदारम् । उगम एव वोदारम् । उपादानात्प्रति अनुसमयमुगच्छति वर्धते जौर्यते शौर्यते परिणमतीत्युदारम् । उदारमेवौदारिकम् । नैवमन्यानि ॥ यथोगमं वा निरतिशेष|| ग्राह्यं छेद्यं भेद्यं दाचं हार्यमित्युदारणा दौदारिकम् । नैव
मन्यानि ॥ उदारमिति च स्थलनाम** । स्थूलमुद्रतं, पुष्टं 10 रहन्महदित्युदारमेवौदारिकम् । नैवं शेषाणि । तेषां हि परं परं सूक्ष्ममित्युतम् ॥
वैक्रियमिति । विक्रिया विकारो विकृतिविकरणमित्यनर्थान्तरम् । विविधं क्रियते । एकं भूत्वानेकं भवति । अनेक
भूत्वा एकं भवति । अणु भूत्वा महद्भवति । महच्च भूत्वाणु 15 भवति । एकाकृति भूत्वानेकाकृति भवति । अनेकाकति भूत्वा
एकाति भवति । दृश्यं भूत्वादृश्यं भवति । अदृश्यं भूत्वा दृश्यं भवति । भूमिचरं भूत्वा खेचरं भवति खेचरं भूत्वा भूमिचरं भवति । प्रतिघाति भूत्वाप्रतिघाति भवति । अप्रतिघाति भूत्वा प्रतिघाति भवति । युगपञ्चैतान् भावाननुभवति । नैवं
* K चास्यान्यः प्रकाशः। + S पालनच खरूपस्य कारणम् । IC उत्कठारम्।
S A omits वा। || Kadds वा। TT A उद्धारणा, B K उदाहरणा, S perhaps विदारणात् । ** C omits नाम।
tt II. 38.