________________
५६
तत्त्वावाधिगमसूत्रम् ।
[ ० २ । ०४६ । ]
कार्मणमेषां निबन्ध* माश्रयो भवति ।
तत्कर्मत एव
भवतीति बन्धे परस्ताद्वक्ष्यति । कर्म हि कार्मणस्य कारणमन्येषां च शरीराणामादित्यप्रकाशवत् ॥ यथादित्यः स्वमा
* K निबन्धनमा०
+ VIII.
स्यात् । तनुलब्धि तैजम्मतो लब्धिप्रस्तावमुपजीवन्भाष्यकारस्तैजसमपौत्याह । तेजोविकारस्तैजमं सर्वस्वोष्णलक्षणं रसा- 5 द्याहारपाकजननमेतच्चावश्यं सर्वप्राणिविषयमभ्युपगन्तव्यमन्यथा शरौरपदे तैजसशरीराणि बद्धान्यनन्तानि श्रनन्तोत्सर्पिण्यवसर्पिणीसमयराशिसमसङ्ख्यानि कालतः क्षेत्रतो ऽनन्ता लोका द्रव्यतः सिद्धेभ्यो ऽनन्तगुणानि सर्वजीवानन्तभागोनानि । किं पुनः कारणमनन्तानि तत्खामिनामानन्त्यादित्येष ग्रन्थः सर्वो 10 विघटेत | लब्धिप्रत्यय एवाङ्गीक्रियमाणे तैजसवपुष्यतो विद्यमानमपि सर्वासुमत्सु सहजमनादृत्य तैजसं लब्ध्यधिकारे लब्धिप्रत्ययमेवाचष्टे नेतरदिति तैजसं शरीरं तैजसशरीरलब्धिकारणमुद्भूतशक्ति भवति तपोविशेषानुष्ठानात्कस्यचिदेव जातुचिन्न सर्वस्येति ॥
· H तैजसमपीति सूत्रं संबन्धः प्रतीतः समुदायार्थं वा । श्रवयवार्थमाह तैजसमित्यादिना तेजसमपि शरीरं प्राङ्गिर्दिष्टस्वरूपं किमित्याह लब्धिप्रत्ययं लब्धिनिमित्तं भवति लब्धिनिमित्तमपि न तु लब्धिनिमित्तमेव कार्मणभेदस्योष्णलचणस्य रसाद्याहारपाकजनकस्य भावादिति ॥
15
20