________________
५४
तत्त्वार्थाधिगमसूत्रम् । [
रासू० ४५-४७।]
....... 10
भाज्यान्या चतुभ्यः । तद्यथा । तैजमकार्मणे वा स्याताम् । तैजसकार्मणौदारिकाणि वा स्यः । तैजसकार्मणवैक्रियाणि वा स्युः । तैजसकार्मणौदारिकवैक्रियाणि वा स्युः । तैजसकार्मणौदारिकाहारकाणि वा स्युः ॥ कार्मणमेव वा स्यात् । कार्मलौदारिके वा स्याताम् । कार्मणवैक्रिये वा स्याताम् । कार्मणौदारिक- 5 वैक्रियाणि वा स्युः। कार्मणौदारिकाहारकाणि वा स्युः। कार्मणतेजसौदारिकवैक्रियाणि वा स्युः । कार्मणतेजसौदारिकाहारकाणि वा स्युः । न तु कदाचिद्युगपत्पञ्च भवन्ति । नापि वैक्रियाहारके युगपद्भवतः स्वामिविशेषादिति वक्ष्यते ॥
निरुपभोगमन्त्यम् ॥ ४५ ॥ ___ अन्यमिति सूत्रक्रमप्रामाण्यात्कार्मणमाह । तनिरुपभोगम् । न सुखदुःखे तेनोपभुज्यते न तेन कर्म बध्यते न वेद्यते नापि निर्जीयत इत्यर्थः ॥ शेषाणि तु सोपभोगानि । यस्मात्मुखदुःखे तैल्पभुज्येते कर्म बध्यते वेद्यते निर्जीर्यते च तस्मात्मोपभोगानौति॥
15 अत्राह । एषां पञ्चानामपि शरीराणां संमईनादिषु त्रिषु? जन्मसु किं क जायत इति । पत्रोच्यते ।
नजमाद्यम् ॥ ४६॥ श्राद्यमिति सूचक्रमप्रामाण्यादौदारिकमाह । तगर्भ संमूर्छने वा जायते ।
20
* Some Mss. add कामणनेजसे वा स्याताम् । + K for तु। # K adde 91
S KB विजम्मसु ।