________________
४२
तत्त्वार्थाधिगमसूत्रम् । [अ०२। सू०१०-१५)
ज्ञानोपयोगो ऽष्टविधः। तद्यथा । मतिज्ञानोपयोग: श्रुतज्ञानोपयोगो ऽवधिज्ञानोपयोगी मनःपर्यायज्ञानोपयोगः केवल ज्ञानोपयोगो मत्यज्ञानोपयोगः श्रुताज्ञानोपयोगो विभङ्गज्ञानोपयोग इति । दर्शनोपयोगश्चतुर्भेदः । तद्यथा । चक्षुर्दर्शनोपयोगो ऽचक्षुदर्शनोपयोगो ऽवधिदर्शनोपयोगः केवलदर्शनोपयोग इति ॥
__ संसारिणो मुक्ताश्च ॥ १० ॥ ते जौवाः समासतो द्विविधा भवन्ति संसारिणे मुताश्च । किं चान्यत् ।
समनकामनस्काः॥ ११ ॥ समासतस्ते एव जौवा द्विविधा भवन्ति समनस्काश्च अमन- 10 स्काश्च । तान्परस्तावक्ष्यामः ॥
संसारिणस्त्रसस्थावराः ॥ १२॥ संसारिणो जौवा द्विविधा भवन्ति त्रसाः स्थावराश्च । तत्र
पृथिव्यब्वनस्पतयः स्थावराः॥१३॥ पृथिवीकायिका अपकायिका वनस्पतिकायिका इत्येते 15 त्रिविधाः स्थावरा जौवा भवन्ति । तत्र पृथिवीकायो ऽनेकविधः शुद्धपथिवीशर्करावालुकादिः । अप्कायो ऽनेकविधो हिमादिः। वनस्पतिकायो ऽनेकविधः शैवलादिः ॥
तेजोवायू दौन्द्रियादयश्च वसाः ॥ १४ ॥
* II. 25.