________________
तत्त्वार्थाधिगमसूत्रम् । . [१०१ । सू० ३५ ।]
साम्प्रतविषयवाहकमजुसूचनयं ममामतो विद्यात् । विद्याद्यथार्थशब्दं विशेषितपदं तु शब्दनयम् ॥ ४ ॥ इति ॥
अत्राह। अथ जीवो नोजौवः अजीवो नोऽजीव इत्याकारिते केन नयेन कोऽर्थः प्रतीयत इति । अत्रोच्यते । जीव इत्याकारिते मैगमदेशसंग्रहव्यवहारर्जुसूत्रमाम्प्रतममभिरूढः । पञ्चस्खपि गतिध्वन्यतमो जीव इति प्रतीयते । कस्मात् । एते हि नया जीवं प्रत्यौपशमिकादियुक्तभावग्राहिणः । नोजीव इत्यजीवद्रव्यं जौवस्य वा देशप्रदेशौ । अजीव इत्यजीवद्रव्यमेव । नोऽजीव इति जीव एव तस्य वा देशप्रदेशाविति ॥ एवम्भूतनयेन तु जौव इत्याकारिते भवस्थो जौवः प्रतीयते । कस्मात् । 10 एष हि नयो जौवं प्रत्यौदयिकभावग्राहक एव । जीवतौति जौव: प्राणिति प्राणान्धारयतीत्यर्थः। तच्च* जौवनं सिद्धे न विद्यते तस्माद्भवस्थ एव जीव इति। नोजीव दत्यजीवद्रव्यं सिद्धो वा। अजीव इत्यजीवद्रव्यमेव । नोऽजीव इति भवस्थ एव जीव इति। समग्रार्थवाहित्वाचास्य नयस्य नानेन देश- 15 प्रदेशौ ग्रह्यते। एवं जौवौ जौवा इति' द्वित्वबहत्वाकारितेवपि । सर्वसंग्रहणे तु जीवो नोजौवः अजीवो नोऽजीवः जीवौ भोजौवौ अजीवौ नोऽजौवौ इत्येकदित्वाकारितेषु शून्यम् । कस्मात् । एष हि नयः संख्यानन्त्याज्जीवानां बहुत्वमेवेच्छति
_
* A नतु, E ननु ।
.
.
१
इति शब्द आद्यर्थे ।