________________
[अ० १ । सू० ३५]
प्रथमोऽध्यायः ।
यथार्थवाही । शेषास्तु नया जात्यपेक्षमेकस्मिन्बहुवचनत्वं बहुषु च बहुवचनं सर्वाकारितग्राहिण दति। एवं सर्वभावेषु नयवादाधिगमः कार्यः।
अचाह । अथ पञ्चानां ज्ञानानां मविपर्ययाणं कानि को 5 नयः श्रयत इति। अत्रोच्यते । नेगमादयस्त्रयः सर्वाण्यष्टौ
श्रयन्ते। ऋजुसूत्रनयो मतिज्ञानमत्यज्ञानवर्जानि षट् ॥ अवाह । कस्मान्मतिं मविपर्ययां न श्रयत इति। अत्रोच्यते । श्रुतस्य मविपर्ययस्योपग्रहत्वात्। शब्दनयस्तु दे एव श्रुतज्ञानकेवलज्ञाने
श्रयते। अत्राह। कस्मान्नेतराणि श्रयत इति। अत्रोच्यते । 10 मत्यवधिमनःपर्यायाणं श्रुतस्यैवोपग्राहकलात् । चेतनाज्ञस्वाभाव्याञ्च सर्वजीवानां नास्य कश्चिन्मिथ्यादृष्टिरज्ञो वा जीवो विद्यते । तस्मादपि विपर्ययान्न श्रयत इति । अतश्च प्रत्यक्षानुमानोपमानाप्तवचनानामपि प्रामाण्यमभ्यनुज्ञायत इति। आह च
विज्ञायैकार्थपदान्यर्थपदानि च विधानमिष्टं च । विन्यस्य परिक्षेपात्रयैः परोक्ष्याणि तत्त्वानि ॥१॥ ज्ञानं सविपर्यासं त्रयः श्रयन्यादितो नयाः सर्वम् । सम्यग्दृष्टेर्ज्ञानं मिथ्यादृष्टेविपर्यासः ॥२॥
जुसूत्रः षट् श्रयते मतेः श्रुतोपग्रहादनन्यत्वात् । श्रुतकेवले तु शब्दः श्रयते नोऽन्यच्छ्रुताङ्गत्वात् ॥३॥
15
* S omits this.
१ सर्वाकारितग्राहिण इति सर्ववचनैरेकवचनादिभिराकारितानेताविकल्पान् ग्टहन्ति तच्छिलाश्च सर्वाकारितग्राहिण इति ॥