________________
तत्त्वार्थाधिगमसूत्रम् ।
[अ० १ । सू० ३५।]
क
बहुषु वा नामादिविशेषितेषु मानतातोतानागतेषु घटेषु संप्रत्ययः१ संग्रहः। तेष्वेव खौकिकपरीक्षकग्राह्येषूपचारगम्येषु यथास्थूलार्थेषु संप्रत्ययो व्यवहारः । तेष्वेव सत्सु मानतेषु संप्रत्यय ऋजुसूत्रः । तेष्वेव मानतेषु नामादौनामन्यतमग्राहिषु प्रसिद्धपूर्वकेषु घटेषु संप्रत्ययः साम्प्रतः शब्दः । तेषामेव साग्र- 5 तानामध्यवसायासंक्रमो वितर्कध्यानवत् समभिरूढः। तेषामेव व्यञ्जनार्थयोरन्योन्यापेक्षार्थवाहित्वमेवम्भूत इति ॥
अत्राह। एवमिदानीमेकस्मिन्नर्थऽध्यवसायनानात्वाचन विप्रतिपत्तिप्रसङ्ग इति । अत्रोच्यते । यथा सर्वमेकं सदविशेषात् सर्वं द्वित्वं जौवाजीवात्मकत्वात् सर्वं त्रित्वं द्रव्यगुण- 10 पर्यायावरोधात् सर्वं चतुष्वं चतुर्दर्शनविषयावरोधात् सर्व पञ्चत्वमस्तिकायावरोधात् सर्वं षट्त्वं षड्यावरोधादिति । यथैता न विप्रतिपत्तयो ऽथ चाध्यवसायस्थानान्तराण्येतानि तदन्वयवादा इति। किं चान्यत् । यथा मतिज्ञानादिभिः पञ्चभिनिर्धर्मादौनामस्तिकायानामन्यतमोऽर्थः पृथक् पृथगु- 15 पलभ्यते पर्यायविशुद्धिविशेषादुत्कर्षण न च ता विप्रतिपत्तयः
• C पूर्वेषु। + K साम्प्रतशब्दः ।
+ K शब्देषु। $ H चतुष्क A चतुष्टयं ।
१ संप्रत्ययः सामान्य घटो घट इति परिज्ञानं ॥ २ % उपचारगम्यविति लोकक्रियाधारेषु ॥ ३ s विरुद्धप्रतीतिविप्रतिपत्तिः ॥