________________
26
APPENDIX C.
अथ द्वितीयमाहिकम् । . निषधनौलमध्ये महाविदेहं निषधद्विगुणविष्कम्भं मध्यलक्षायामम् ॥
तन्मध्ये ऽधः सहस्रावगाढो नवनवत्युच्छ्रयो दशाधोविस्तृत उपर्युकसाहस्रस्त्रिकाण्डस्त्रिलोकप्रविभक्तमूर्तिः सर्वरत्नमयो मेरुः पृथिव्युपलवज्रशर्कराप्रथमकाण्डो ऽङ्कःस्फुटिकरजनरूपमध्य उपरि जाम्बूनदः । प्रथमं साहस्रं त्रिषष्टिषट्त्रिंशत्साहस्रे इतरे। तत्र भद्रशालनन्दनसौमनसपण्डकानि वनानि । धरण्यां भद्रशालं चतुर्वक्षारपर्वतविभक्त द्वाविंशतिसहस्रं मेरोः पूर्वण तथापरेणोत्तरेणार्धतीयशतं तथा दक्षिणेन । पञ्चाशत्सु योजनेषु चतुर्दिश्या नि मिद्धायतनानि हिमवद्वत्। तथा तावति पुष्करिण्यो विदिक्ष चतस्रः चतस्रः पञ्चविंशतिविष्कम्भास्तविगणायामा दशावगाढाः पद्मा-पद्मप्रभा-कुमुदा-कुमुदप्रभोत्पलगुल्मा-नलिन्युत्पलोत्पलोज्वला-भृङ्गा-भृङ्गनिभाञ्जना-कज्जलप्रभा-श्रीकान्ता-श्रीमहिता-श्रीचन्द्रा-श्रीनिलयाः प्रागुत्तरक्रमागण्याः । तन्मध्ये प्रासादाः पञ्चशतोचास्तदर्धविस्तताः सिंहासनवन्तो दक्षिणी शक्रस्य उत्तरावीशानस्य । सौतासौतोदोभयकूलेषु दो द्वौ पद्मोत्तरनौलमहत्यञ्जनकुमुदपलाशवडंश रोचनकूटगिरयः मौतोत्तरक्रमाद्धिमवत्कूटवत्खनामदेवाः ॥ तदुपरि पञ्चशत्यां नन्दनं वृत्तं पञ्चशत विस्ततं तददायतनप्रामादवत् । पुष्करिण्यः नन्दोत्तरा नन्दा सुनन्दा नन्दिवर्धना नन्दिषणा अमोघा गोस्वपा सुदर्शना भद्रा
* V वसो वा।