________________
APPENDIX C.
विशाला कुमुदा पुण्डरीकिणौ विजया विजयन्ती जयन्ता अपराजिता । नन्दनमन्दरनिषधहैमवतरजतरुचकसागरचित्तवनकूटानि दिक्कुमारौस्थानानि । ताश्च नामतो मेघंकरा मेघवती सुमेघा मेघमालिनी सुवच्छा वच्छमित्रा च वारिषेणा बलाहका। तथा नवमं बलकूटं प्रागत्तरं माहस्रं तदविस्तृतं तदर्धमुपरि बलावसतिः । खदिक्षु राजधान्यस्तामाम् ॥ अर्धत्रिषष्टिसहस्रेषु सौमनसं नन्दनवनवत्। कूटवाः पुष्करिण्यः सुमनाः सौमनसा सौमनांशा मनोरमा उत्तरकुरुः देवकुरुः वौरसेना सरखतौ विशाला माघभद्रा भयसेना रोहिण भद्रोत्तरा भद्रा सुभद्रा भद्रावतौ ॥ ततः षट्त्रिंशत्सु पण्डकं चतुवचतुःशतं । तन्मध्ये चूलिका चत्वारिंशद्योजनोच्चा चतुर्दादशोपर्यधोविस्तृता वैडर्यमयो । तत्र जिनायतनं विजयार्धवत् ! वनं तथा कूटवय पुष्करिण्यः पुण्ड्रा पुण्डाभा सुरता रक्तवतौ चौररसा इक्षुरसा अमृतरमा वारुणौ शङ्खोत्तरा शङ्खा शङ्खावर्ता बलाहका पुष्योत्तरा पुष्यवतौ सुपुष्या पुष्यमालिनौ। पाण्डके चतस्रो ऽभिषेकशिला दिक्षु पाण्डतिपाण्डुरक्तातिरक्ककम्बलाख्याश्चतुर्योजनोमेधाः पञ्चशतायामास्तदर्धविस्तारा अर्धचन्द्राकारा अर्जुनकनकमय्यश्चतुर्दित्रिमोपाना वेदिका वनखण्डतोरणध्वजच्छत्रादियुक्ताः । पूर्वापरयोई दे सिंहासने पञ्चधनु:शतायामविष्कम्भे तदर्धपृथुनौ । तयोर्दक्षिणोत्तरतीर्थकराभिषेकः ॥ (इति मेरुः )
गजदन्ताकृतयो विदिचु मेरोः चत्वारो वक्षस्कारपर्वताः सौम
* Var V पाण्डकवने वनान्ने वा (पाठः) ।