________________
२३२
सत्त्वार्थाधिगमसूत्रम् ।
अरगसू०७।]
लोके तत्मदृशो ह्यर्थः कृत्वेऽप्यन्यो न विद्यते । उपगोयेत* तद्येन तस्मान्निरु पमं सुखम्। ॥३०॥ लिङ्गप्रसिद्धेः प्रामाण्यादनुमानोपमानयोः । अत्यन्तं चाप्रसिद्धं तद्यत्तेनानुपमं स्मृतम् ॥३१॥ प्रत्यक्षं तद्भगवतामहतां तैश्च भाषितम् । ग्टह्यते ऽस्तौत्यतः प्राज्ञैर्न छद्मस्थपरौक्षया ॥१२॥ इति यस्त्विदानौं सम्यग्दर्शनज्ञानचरणसंपन्नो भिक्षोक्षाय घटमानः कालसंहननायुषादल्पशक्तिः कर्मणां चातिगुरुत्वादकृतार्थ एवोपरमति स सौधर्मादौनां सर्वार्थसिद्धान्तानां कल्पविमानविशेषाणामन्यतमस्मिन्देवतयोपपद्यते । तत्र सुकृत कर्म- 10 फलमनुभूय स्थितिक्षयात्प्रच्युतो देशजातिकुलशीलविद्याविनयविभवविषयविस्तरविभूतियुक्तेषु मनुष्येषु प्रत्यायातिमवाप्य पुनः सम्यग्दर्शनादिविशुद्धबोधिमवाप्नोति । अनेन सुखपरम्परायुक्रेन कुशलान्यासानुबन्धक्रमेण परं त्रिर्जनित्वा सिध्यतौति ॥
वाचकमुख्यस्य शिवश्रियः प्रकाशयशसः प्रशिष्येण। 15 शिष्येण घोषनन्दिक्षमणस्यैकादशाङ्गविदः ॥१॥ वाचनया च पमहावाचकक्षमणमुण्डपादशिय्यस्य । शिष्येण वाचकाचार्यमूलनाम्नः प्रथितकोतः ॥२॥
* D उपनौयेत । * D प्रामाण्यं धनमान । || D खकृत।
+ D स्मृतम्।
देवत्वायोपपद्यते। T B मुण्डा।