________________
ܐ
तत्त्वार्थाधिगमसूत्रम् ।
[अ०] १ । ० ६-११ ॥]
सम्यग्दृष्टयस्त्वनन्तगुणा इति । एवं सर्वभावानां नामादिभियसं कृत्वा प्रमाणादिभिरभिगमः * कार्यः ॥ उक्तं सम्यग्दर्शनम् । ज्ञानं वक्ष्यामः ।
मतिश्रुतावधिमनःपर्यायकेवलानि ज्ञानम् ॥ १ ॥
मतिज्ञानं श्रुतज्ञानं श्रवधिज्ञानं मनः पर्यायज्ञानं केवल - 5 ज्ञानमित्येतन्मूलविधानतः पञ्चविधं ज्ञानम् । प्रभेदास्त्वस्य' पुरस्तादयन्ते ॥
तत्प्रमाणे ॥ १० ॥
तदेतत्पञ्चविधमपि ज्ञानं द्वे प्रमाणे भवतः
प्रत्यक्षं च ॥
परोक्षं
आद्ये परोक्षम् ॥ ११ ॥
श्रादौ भवमाद्यम् । श्रद्ये सूत्रक्रमप्रामाण्यात् प्रथमद्वितीये शास्ति' । तदेवमाद्ये मतिज्ञानश्रुतज्ञाने परोचं प्रमाणं भवतः । कुतः । निमित्तापेचत्वात् । श्रपायसद्द्रव्यतया मतिज्ञानम् ।
10
* HK • रधिगमः ।
+ K adds तत्र ।
१ s मतिज्ञानस्यावग्रहादयः श्रुतस्यांगानंगप्रविष्टादयोऽवधिज्ञानस्य भवप्रत्ययादयो मनःपर्यायज्ञानस्य ऋजुमत्यादयः केवलज्ञानस्य तु न सत्येव ।
२ s शास्तीति च ग्रन्थकार एव दिधात्मानं विभन्य सूत्रभाष्यकाराकारेणैवमाह शास्तौति सूत्रकार इति ।
३ s पायच सद्द्रव्याणि च तेषां भावः तया । समुद्रव्यतयेत्यनेनार्थत इदं कथ्यते सम्यग्दृष्टेऽपायांश इति ।