________________
१८६
तत्वार्थाधिगमसूत्रम्।
[4.
सू०६।]
प्राणैर्वियोजयतीति । एतदपि विद्यते बालेविति । प्राणैर्वियोजयत्यपि बाले चमितव्यं । दिश्या च मां प्राणैर्वियोजयति न धर्माचंशयतीति चमितव्यम् । एतदपि विद्यते बालेष्विति लाभ एव मन्तव्यः ॥ किं चान्यत् । स्वकृतकर्मफलाभ्यागमाच्च। खकृतकर्मफलाभ्यागमो ऽयं मम, निमित्तमात्रं पर इति क्षमि- । तव्यम् । किं चान्यत् । क्षमागुणांश्चानायामादौननुस्मृत्य चमितव्यमेवेति क्षमाधर्मः ॥ १ ॥
नौचैर्वृत्त्यनुत्सेको मार्दवलक्षणम् । मृदुभावः मृदुकर्म च|| मार्दवं मदनिग्रहो मानविघातश्चेत्यर्थः। तत्र मानस्येमान्यष्टौ स्थानानि भवन्ति । तद्यथा। जातिः कुलं रूपमैश्वर्य विज्ञानं 10 श्रुतं लाभो वौर्यमिति। एभिर्जात्यादिभिरष्टाभिर्मदस्थानमत्तः परात्मनिन्दाप्रशंमाभिरतस्तोत्राहंकारोपहतमतिरिहामुत्र चाशुभफलमकुशलं** कर्मोपचिनोत्युपदिश्यमानमपि च श्रेयो न प्रतिपद्यते । तस्मादेषां मदस्थानानां निग्रही मार्दवं धर्म इति ॥ २ ॥
15 . भावविशुद्धिरविसंवादनं चार्जवलक्षणम् । सुजुभावः सृजुकर्म वार्जवं भावदोषवर्जनमित्यर्थः । भावदोषयुक्तो ह्युपधिनिकृतिसंप्रयुक्त इहामुत्र चाशुभफलमकुशलं कर्मोपचिनोत्युपदिश्यमानमपि च श्रेयो न प्रतिपद्यते । तस्मादार्जवं धर्म इति ॥३ ॥
* D adds लाभ एव मन्तव्यः । * D ति।
C मृदुभवो। HD निर्धातस।
+ K भ्यागम्याच्च।
॥ Kवा। . ** D अशल्लकर्म ।