________________
[ अ०६ । सू० ६ ।]
मवमोऽध्यायः।
१९७
प्रलोभः शौचलक्षणम् । शुचिभावः शुचिकर्म वा शौचं भावविशुद्धिः निःकल्मषता धर्मसाधनमात्रा खप्यनभिष्वङ्ग इत्यर्थः । अशुचिहि भावकल्मषसंयुक्त इहामुत्र चाशुभफल्लमकुशलं कर्मोपचिनोत्युपदिश्यमानमपि च श्रेयो न प्रतिपद्यते । 5 तस्माच्छौचं धर्म इति ॥ ४ ॥
मत्यर्थे । भवं वचः सत्य सङ्ग्यो वा हितं मत्यम्। तदननृतमपरुषामपिशुनमनमभ्यमचपलमनाविलमविरलमसंभ्रान्तं मधुरमभिजातमसंदिग्धं स्फुटमौदार्ययुक्तमग्राम्यपदार्थाभिव्याहरमसौभरमरागद्वेषयुक्तं सूत्रमार्गानुसारप्रवृत्तार्थमर्यमर्थिजन10 भावग्रहणसमर्थमात्मपरानुग्राहक निरुपधं देशकालोपपन्नमनवद्यमर्हच्छासनप्रशस्तं यतं मितं याचनं प्रच्छनं प्रश्नव्याकरणमिति सत्यं धर्मः ॥ ५ ॥
योगनिग्रहः संयमः। म** सप्तदशविधः। तद्यथा। पृथिवीकायिकसंयमः अप्कायिकसंयमः तेजस्कायिकसंयमः वायुकायिक15 संयमः वनस्पतिकायिकसंयमः द्वौन्द्रियसंयमः बौन्द्रियसंयमः
चतुरिन्द्रियसंयमः पञ्चेन्द्रियसंयमः प्रेक्ष्यसंयमः उपेक्ष्यसंयमः अपहत्यसंयमः प्रमृज्यसंयमः कायमंयमः वाक्संयमः मनःसंयमः उपकरणमंयम इति संयमो धर्मः ॥ ६ ॥
* K मात्रादिव। + K सत्यार्थे । S D अभिध्याहारं CC भिव्याहरं। 4 B आत्मपरार्थानुग्राहकं । -- - -- tt B उपेक्षसंयमः।
+ K अपुरुष। ..
|| K असौतरम्। -** KD omit स ।
++ C अवहृन्य।