________________
१८४
तत्त्वाधीधिगमसूत्रम् । भिण्यासू० ५, ६ ।] रिति। तत्र शयनासनादाननिक्षेपस्थानचंक्रमणेषु कायचेष्टानियमः कायगुप्तिः। याचनपृच्छनपृष्टव्याकरणेषु वानियमो मौनमेव वा* वाग्गुप्तिः। सावद्यसंकल्पनिरोधः कुशलसंकल्पः कुशलाकुशलसंकल्पनिरोध एव वा मनोराप्तिरिति ॥
ईयाभाषेषणादाननिक्षेपोत्सगाः समितयः ॥५॥ 5
सम्यगौर्या सम्यग्माषा सम्यगेषणा सम्यगादाननिक्षेपौ सम्यगुत्मर्ग इति पञ्च ममितयः ॥ तत्रावश्यकायैव संयमार्थं सर्वतो युगमात्रनिरौक्षणायुक्तस्य शनैर्व्यस्तपदा गतिरौर्यासमितिः । हितमितामंदिग्धानवद्यार्थनियतभाषणं भाषासमितिः। अन्नपानरजोहरणपात्रचौवरादौनां धर्मसाधनानामाश्रयस्य चोहमो- 10 त्पादनेषणादोषवर्जनमेषणाममितिः। रजोहरणपात्रचौवरादौनां पीठफलकादौनां चावश्यकाएं निरीक्ष्य प्रमृज्य चादाननिक्षेपौ श्रादाननिक्षेपणासमितिः। स्थण्डिले स्थावरजङ्गमजन्तुवर्जिते निरौक्ष्य प्रमृज्य च मूत्रपुरीषादौनामुत्मर्ग उत्सर्गसमितिरिति ॥ __ उत्तमः क्षमामार्दवावशौचसत्यसंयमतपत्यागाकिंचन्यब्रह्मचर्याणि धर्मः ॥ ६ ॥
इत्येष दशविधो ऽनगारधर्मः उत्तमगुणप्रकर्षयुको भवति । तत्र क्षमा तितिक्षा महिष्णुत्वं कोधनियह इत्यनान्तरम् ।
15
* KD omit वा। * D न्यस्तपादा।
+ D सावधविकल्पनिरोधः। $ s possibly निरवद्यार्थ ।।