________________
अथ नवमोऽध्यायः।
उक्तो बन्धः । संवरं वक्ष्यामः
आसवनिरोधः संवरः॥१॥ यथोक्तस्य काययोगादेईिचत्वारिंशद्विधस्यामवस्य निरोधः संवरः। 5 स गुप्तिसमितिधर्मानुप्रेक्षापरौषहजयचारित्रैः ॥२॥ ___स एष संवर एभिर्गुप्यादिभिरभ्यु पायैर्भवति। किं चान्यत् ।
तपसा निर्जरा च ॥३॥ तपो द्वादशविधं वक्ष्यते [IX. 19, 20] । तेन संवरो भवति निर्जरा च ॥ 10 अत्राह । उक्तं भवता गुप्यादिभिरभ्युपायैः संवरो भवतीति। तत्र के गुण्यादय इति । अत्रोच्यते
सम्यग्योगनिग्रहो गुप्तिः ॥ ४ ॥ सम्यगिति विधानतो ज्ञात्वाभ्युपेत्य सम्यग्दर्शनपूर्वक विविधस्य योगस्य निग्रहो गुप्तिः कायगुप्तिर्वाग्गुप्तिर्मनोगुप्ति
* MSS •भिवपा। -
+ K adds संवरच ।