________________
तत्त्वार्थाधिगमसूत्रम् । [अ॰ ६+०२२-२४।]
वेदनीयनामगोचप्रकृतिभ्यः शेषाणां ज्ञानावरणदर्शनावरणमोहनीयायुष्कान्तरायप्रकृतीनामपरा स्थितिरन्तर्मुहूर्त * भवति ॥ उक्तः स्थितिबन्धः । अनुभावबन्धं वक्ष्यामः ।
१६.
विपाको ऽनुभावः ॥ २२ ॥
सर्वासां प्रकृतीनां फलं विपाकोदयो ऽनुभावो भवति । 5 विविध: पाको विपाकः स तथा चान्यथा चेत्यर्थः । जीवः कर्म - विपाकमनुभवन् कर्मप्रत्ययमेवाना भोगवीर्यपूर्वकं कर्मसंक्रमं करोति ? उत्तरप्रकृतिषु सर्वासु मूलप्रकृत्यभिन्नासु न तु मूलप्रकृतिषु संक्रमो विद्यते बन्धविपाकनिमित्तान्यजातीयकत्वात् । उत्तरप्रकृतिषु च दर्शनचारित्रमोहनीययोः सम्यग्मिथ्यात्ववेदनीयस्या - 10 युष्कस्य च जात्यन्तरानुबन्धविपाकनिमित्तान्यजातीयकत्वादेव संक्रमो न विद्यते । अपवर्तनं तु सर्वासां प्रकृतीनां विद्यते । तदायुष्केण व्याख्यातम् [II. 52] ॥
स यथा नाम ॥ २३ ॥
सो ऽनुभावो गतिनामादीनां यथा नाम विपच्यते ॥
ततश्च निर्जरा ॥ २४ ॥
ततश्चानुभावात्कर्मनिर्जरा भवतीति || | निर्जरा चयो वेद
* D चन्नममुहूर्ता ।
$ D निमित्तस्यान्य ।
-
+ C अनुभाग ।
+ C adds इति ।
|| CD omits इति ।
15