________________
१६०
तत्त्वार्थाधिगमसूत्रम् । [अ० १ । सूक-रश] बन्धवधच्छविच्छेदातिभारारोपणानपाननिरोधाः ॥२०॥
त्रमस्थावराणं जीवानां बन्धवधौ त्वक्छेदः काष्ठादौनां पुरुषहस्त्यश्वगोमहिषादीनां चातिभारारोपणं तेषामेव चानपाननिरोधः अहिंसाव्रतस्यातिचारा भवन्ति ॥
5 मिथ्योपदेशरहस्याभ्याख्यानकूटलेखक्रियान्यासापहारसाकारमन्त्रभेदाः ॥ २१ ॥ _एते पञ्च मिथ्योपदेशादयः सत्यवचनस्यातिचारा भवन्ति । तत्र मिथ्योपदेशो नाम प्रमत्तवचनमयथार्थवचनोपदेशो विवादेव तिसंधानोपदेश इत्येवमादिः॥ रहस्याभ्याख्यानं 10 नाम स्त्रीपुंसयोः परस्परेणान्यस्य वा रागसंयुक्तं हास्यक्रौडासङ्गादिभौ रहस्येनाभिशंसनम् ॥ कूटलेखक्रिया लोकप्रतीता ॥ न्यासापहारो विस्मरणकृतपरनिक्षेपग्रहणम् ॥ साकारमन्त्रभेदः पैशुन्यं गुह्यमन्त्रभेदश्च ॥
स्तेनप्रयोगतदाहृतादानविरुद्धराज्यातिक्रमहीना- 51 धिकमानोन्मानप्रतिरूपकव्यवहाराः ॥ २२ ॥
एते पञ्चास्तेयव्रतस्थातिचारा भवन्ति । तत्र स्तेनेषु हिरण्यादिप्रयोगः ॥ स्तेनैराहतस्य द्रव्यस्य मुधा क्रयेण वा ग्रहणं
+ BK प्रभेदश।
* D विवादादिष्वतिसं।
+ C •हुनद्र।