________________
९५८
तत्त्वार्थाधिगमसूत्रम् । [अ० 9। सू. १३-१६ ] ... अचाह । ग्टहीमस्तावद्वतानि । अथ व्रतौ क इति । अत्रोच्यते
निःशल्यो व्रती ॥ १३॥ मायानिदानमिथ्यादर्शनशल्यैस्त्रिभिर्वियुक्तो निःशल्यो व्रती भवति । व्रतान्यस्य सन्तौति व्रतौ। तदेवं निःशल्यो व्रतवान् व्रती भवतीति ॥
अगायनगारश्च ॥ १४॥ म एष व्रती विविधो भवति। अगारी अनगारश्च । श्रावकः श्रमणश्चेत्यर्थः ॥ अचाह। को ऽनयोः प्रतिविशेष इति । अत्रोच्यते
अणुव्रतो ऽगारौ ॥१५॥ अणन्यस्य व्रतानीत्यणुव्रतः। तदेवमणुव्रतधरः श्रावको ऽगारी व्रती* भवति ॥
किं चान्यत् दिग्देशानर्थदण्डविरतिसामायिकपौषधोपवासोपभोगपरिभोगा तिथिसंविभागवतसंपन्नश्च ॥ १६ ॥
एभिश्च दिग्वतादिभिरुत्तरवतैः संपन्नो ऽगारौ व्रतौ भवति ।
* C omits thist + B पोषध everywhere | + Badds परिमाण, H probably does the same |