________________
[ अ० ७ । सू० १६ । ]
सप्तमोऽध्यायः ।
१५०
तत्र दिग्व्रतं नाम तिर्यगर्ध्वमधो वा दशानां दिशां यथाशक्ति गमनपरिमाणाभिग्रहः । तत्परतश्च सर्वभूतेव्वर्थतो ऽनयंतश्च सर्वसावद्ययोगनिक्षेपः ॥ देशव्रतं नामापवरकग्टहग्रामसौमादिषु
यथाशक्ति प्रविचाराय* परिमाणाभिग्रहः । तत्परतश्च सर्वभूते5 वर्थतो ऽनयंतश्च सर्वसावद्ययोगनिक्षेपः ॥ अनर्थदण्डो नामोप
भोगपरिभोगावस्यागारिणो वतिनो ऽर्थः। तद्व्यतिरिक्तो ऽनर्थः । तदर्थी दण्डो ऽनर्थदण्डः । तद्विरतिव्रतम् ॥ सामायिकं नामाभिग्टह्य कालं सर्वसावद्ययोगनिक्षेपः ॥ पौषधोपवासो नाम
पौषधे उपवासः पौषधोपवास: । पौषधः पर्वत्यनन्तरम् । सो 10 ऽटमौं चतुर्दशौं पञ्चदशीमन्यतमा वा तिथिमभिग्टह्य चतुर्थाधुपवासिना व्यपगतस्नानानुलेपानगन्धमाल्यालंकारेण न्यस्तमर्वमावद्ययोगेन कुशसंस्तारफलकादौनामन्यतमं संस्तारमास्तौर्य स्थानं वीरासननिषद्यानां वान्यतममास्थाय? धर्मजागरिकापरेणानुष्ठेयो भवति ॥ उपभोगपरिभोगव्रतं नामाशनपानखाद्य||15 खाद्यगन्धमाल्यादौनामाच्छादानप्रावरणालंकारशयनासनग्रह
यानवाहनादौनां च बहुमावद्यानां वर्जनम् । अल्पसावद्यानामपि परिमाणकरणमिति॥ अतिथिसंविभागो नाम न्यायागतानां
-
* D प्रतिचाराय। + D omits | + K अनुलेप। $ D निषद्यानामन्यतमदास्थाय धर्मजागरिकापरिणामेन । || BK खाद्याखाद्य।
Comits वाच्छादन ।