________________
[अ० ७ । सू• ६, ७।]
सप्तमोऽध्यायः ।
१५३
मैत्रीप्रमोदकारुण्यमाध्यस्थानि सत्त्वगुणाधिकक्लिश्यमानाविनेयेषु ॥ ६॥
भावयेद्यथासङ्ख्यम्। मैत्रौं सर्वसत्त्वेषु । हमे ऽहं सर्वसत्त्वानाम् । चमये ऽहं सर्वसत्त्वान् । मैत्री मे सर्वसत्वेषु । वैरं मम 5 न केनचिदिति ॥ प्रमोदी गुणाधिकेषु । प्रमोदो नाम विनयप्रयोगो वन्दनस्तुतिवर्णवादवैयावृत्त्यकरणादिभिः सम्यक्तज्ञानचारित्रतपोधिकेषु साधुषु परात्मोभयकृतपूजाजनितः सर्वेन्द्रियाभिव्यक्तो मनःप्रहर्ष इति ॥ कारुण्यं क्लिश्यमानेषु ।
कारुण्यमनुकम्पा दीनानुग्रह इत्यर्थः। तन्महामोहाभिभूतेषु 10 मतिश्रुतविभङ्गाज्ञानपरिगतेषु विषयतर्षामिना दन्दह्यमान:
मानसेषु हिताहितप्राप्तिपरिहारविपरीतप्रवृत्तिषु विविधदुःखार्दितेषु दौनकृपणनाथबालमोमुहवृद्धेषु सत्त्वेषु भावयेत् । तथा हि भावयन् हितोपदेशादिभिस्तामनुग्रहातीति ॥ माध्यस्थ्य
मविनेयेषु । माध्यस्थ्यमौदामोन्यमुपेक्षेत्यनर्थान्तरम् । अविनेया 15 नाम मृत्पिण्डकाष्ठकुड्यभूता ग्रहणधारणविज्ञानेहापोहवियुक्ता
महामोहाभिभूता दुष्टावग्राहिताश्च । तेषु माध्यस्थं भावयेत् । न हि तत्र वर्हितोपदेशसाफल्यं भवति ॥ किं चान्यत् जगत्कायस्वभावौ च संवेगवैराग्यार्थम् ॥ ७॥
* H मैचौ।
+ H प्रमोदो। _+ D विनयप्रयोगवन्दन ।
8 DS दह्यमान।